________________
भावनाधिकारे प्रायश्चित्तप्रसंगे जीतव्यवहार
तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तद्रूप एवापराधे तथैव प्रयुङ्क्ते तदाऽसौ तुर्यो धारणाव्याहार इष्यते, अथवा यदा गुरुरशेषपुष्पमालाच्छेदश्रुतायोग्यस्य कस्यचिच्छिष्यस्यानुग्रहं कृत्वोद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति, तदा तेषां पदानां धरणं धारणाऽभिलघुवृत्तिः धीयत इति गाथार्थः ॥ ३५७ ॥ जीतव्यवहारमाह॥३२॥
दबाइ चिंतिऊणं, संघयणाईण हाणिमासज्ज । पायच्छित्तं जीयं, रूढं वा जं जहिं गच्छे ॥ ३५८ ॥
व्याख्या-येवपराधेषु पूर्वाचार्या बहुतपाप्रकारेण शुद्धिं कृतवन्तस्तेष्वेव साम्प्रतं द्रव्यक्षेत्रकालभावान्विचिन्त्य संहननादीनां |च हानिमासाद्य समुचितेन केनचित्तपःप्रकारेण यत्प्रायश्चित्तं गीतार्था निर्दिशन्ति तत्समयभाषया जीतमुच्यते, अथवा यद्यत्र गच्छे | सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितं, अन्यैश्च बहुभिरनुवर्तितं, तत्तत्र रूढं जीतमुच्यत इति गाथार्थः ॥ ३५८ ॥
एतेषां च व्यवहाराणामन्यतरेणापि युक्तो गीतार्थो गुरुः प्रायश्चित्तदानेऽधिकारी, न त्वगीतार्थः, कुतः ? इत्याह| अगीओ न वियाणेइ, सोहिं चरणस्स देइ ऊणऽहियं । तो अप्पाणं आलो-यगं च पाडेइ संसारे ॥३५९॥
___ व्याख्या-अगीनार्थो हि चरणस्य (शोधि)-शुद्धिं न विजानात्यतः सूत्रोक्तानामधिकामपि च तां ददाति, ततो न्यूनाधिकहै. प्रायश्चित्तदानादात्मानमालोचकं च संसारे पातयतीति गाथार्थः ॥ ३५९ ॥ यत एवं तन आइ| तम्हा उक्कोसेणं, खित्तम्मि उ सत्तजोयणसयाइं । काले बारसवरिसा, गीयत्थगवेसणं कुज्जा ॥ ३६० ॥
व्याख्या- तस्मः कर्षण क्षेत्रे-क्षेत्रमाश्रित्य सप्तयोजनशतानि यावत् , काले-कालमाश्रित्य द्वादशवर्षाणि यावद्गीतार्थगुरुगवेषणां
॥३२५॥