SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तो सेविज्ज गुरुं चिय, मुक्खत्थी मुक्खकारणं पढमं । आलोएज्ज सुसम्म, पमायखलियं च तस्संऽतो ३५० पुष्पमाला व्याख्या-यत एवं तस्मान्मोक्षार्थी गुरुमेव सेवते, यतो गुरुसेवनमेव प्रथमं कारणं मोक्षस्य, तदन्तरेण ज्ञानादिगुणानप्त्य भावनाधिकारें लघुवृत्तिः | भावात्, गुरुसेवनं कुर्वन् यत्किमपि प्रमादवशात्स्खलितमागच्छति तत्सर्व तदन्तिके सम्यगालोचयेत्, अन्यथा तत्सेवनस्य निष्फलत्वादिति गुरुकुलवास॥३२२॥ | तद्द्वारमुच्यत इति गाथार्थः ॥ ३५०॥ द्वारोपसंहारः। इति गुरुकुलवासस्सर्वदा सेवनीयः, सुकृतिभिरभियुक्तैर्मोक्षमाकाङ्क्षमाणैः। न खलु भवति मोक्षो ज्ञानलाभाहते यत्, स च पुनरिह सम्यक्सद्गुरोस्सेवनेन ॥१॥ इति पुष्पमालाविवरणे भावना द्वारे गुरुकुलवासलक्षणं प्रतिद्वारं समाप्तम् ॥१०॥ अथोक्तसम्बन्धे आलोचनाद्वार एव भणिष्यमाणार्थसङ्ग्रहमाह। कस्सालोयण ? आलो-यओ य आलोइयव्वयं चेव । आलोयणविहिमुवरिं, तदोसगुणे य वुच्छामि ॥३५१॥1 व्याख्या-कस्स गुरोस्तावदालोचना दातव्येति वक्तव्यम् , आलोचकः शिष्यश्च कीदृशो भवतीति वाच्यम्, किश्च वस्तु | गुर्वन्तिके आलोचनीयमिति च वाच्यम् । तथा उपरि आलोचनाविधि तथा तदोषान्-आलोचनाविषयाणि क्षणानि तथा तद्विषयानेव | गुणांश्च वक्ष्यामीति गाथार्थः ॥ ३५१ ॥ तत्राद्यद्वारमधिकृत्याह ल॥३२॥ आयाखमाहावं, ववहारोऽवीलए पकुव्वै य । अपरिस्सावी निज्जव, अवायदंसी गुरू भणिओ ॥ ३५२ ॥ AHARॐॐॐॐ ॐ
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy