SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आत्मानं च परं च भवदुःखान्मोचयन्ति, इति पन्थकसाघुकथा समाप्ता॥ न केवलं पन्थकेन, श्रीगौतमादिभिरपि गुरुकुलवास एव निषेवित इत्याहपुष्पमाला मावनाधिकारे लघुवृत्तिः । सिरिंगोयमाइणो गण-हरा वि नीसेसअइसयसमग्गा । तब्भवसिद्धीयावि हु, गुरुकुलवासं चिय पवन्ना ३४८२ गुरुकुलवासला ॥३२॥ ____ व्याख्या-श्रीगौतमादयो गणधरा अपि निःशेषातिशयैः समग्राः-सम्पूर्णाः, निश्चिततद्भवसिद्धिका अपि गुरुकुलवासमेव । कूलवालकप्रपन्ना इति गाथार्थः ॥ ३४८ ॥ अथ गुरुकुलवासत्यागे दोषप्ररूपणारूपं चरमद्वारमाह कथानकम्। उज्झियगुरुकुलवासो, एक्को सेवइ अकज्जमविसंको । तो कूलवालओ इव, भवओ ममइ भवगहणे ३४९ र व्याख्या-परित्यक्तगुरुकुलवास एकाकी अविशङ्को-गतान्यशङ्कोऽकार्य सर्ववतलोपलक्षणं सेवते, ततः किम ? इत्याह - | ततोऽकार्यसेवनाद्धष्टवतः कूलवालक इव भवगहने भ्रमतीति गाथार्थः ॥ ३४९ ॥ - कूलवालककथानकं पुनरेवम्-कश्चित्क्षुल्लः केलिपरः श्रीसिद्धाचलतीर्थादेवान्नमस्कृत्योत्तरतां गुरूणां पृष्टिस्थश्चपलत्वाच्छिलामचालयत्, सा पतन्ती गुरूणां झगिति प्रसारितपादानां कथमपि न लग्ना। गुरुभिः क्षुलस्योक्तं-रे दुष्ट ! त्वया किं कृतं १, यद्येवंविधोऽसि तत्वीतस्तव विनाशो भविष्यति, ततः क्षुल्ल आचार्यवचोऽलीकताकरणाथ महारण्ये स्त्रीप्रवेशरहिते गत्वा महत्तपः करोति । कदाचित्क्वापि तत्रागतसार्थाद्भिवां गृण्हाति । वर्षाकाले नद्यां कायोत्सर्गस्थस्य तस्य देवतया कूलमन्यत्र वालितं, ततः कूलवालकनाम्ना प्रसिद्धः । इतश्चाशोकचन्द्रापरनामा कोणिकनृपः पद्मावतीभार्याप्रेरितो हल्लविहल्लाम्यां हारकुण्डलादियाचमानस्ताम्यां सेचनकं गृहीत्वा , मुक्तोऽशोकचन्द्रः, आश्रितो विशालायां चेटको मातामहः । तन्निमित्तं तयोर्नुपयोलग्नं युद्धं, यावच्छिलाकण्टकं नाम युद्धमभवत् ।। ३२०॥ CCCCCA-SECRECECA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy