________________
पुन्पमाला लघुवृत्तिः
॥३१६॥
| यथा-किमाचाय ! न पश्यसि चक्षुभ्यां १ यत्कृष्णमप्यनुं वायसं श्वेतं प्रवीषीत्यादि न विकत्थयेत् किन्तु तथेत्र प्रतिपधेत । पुनः किं | कुर्यादित्याह - विरहे- एकान्ते प्राप्ते सति तच्छ्रुतत्वाभिधाने कारणं पृच्छेद्गुरुं सुशिष्य इति गाथार्थः ॥ ३४० ॥
दृष्टान्तपूर्व सुशिष्यत्वोपदेशमाह
निवपुच्छिएण गुरुणा, भणिओ गंगा कओमूही वहइ ? | संपाइयवं सीसा, जह तह सव्वत्थ कायव्यं ३४१ व्याख्या - नृपपृष्टेन गुरुणा गङ्गानदी किंमुखी वहतीति भणितः शिष्यो यथा सम्यग्विनयपूर्वकं सर्वं सम्पादितवान् कृतवांस्तथा | सर्वेष्वपि प्रयोजनेषु सुशिष्येण कर्त्तव्यमित्यक्षरार्थः । भावार्थस्तु यथा
प्रावर्त्तत पुरा जल्पो, राजस्सूरेश्व कस्यचित् । राजा विनीतांस्तत्राह, राजपुत्रान् गुरुर्मुनीन् ॥१॥ परीक्षाय ततो राज्ञा -ऽऽज्ञापितो राजपुत्रकः । निवेदय निरीक्ष्य त्वं, गङ्गा वहति किम्मुखी १ ॥ २ ॥ आदावेव च तेनोक्तं, प्रेक्षणीयं किमत्र यत् । सुप्रतीतमिदं पूर्वाभिमुख्येव वहत्यसौ ॥ ३ ॥ ततः कथञ्चिन्महता, कष्टेन प्रेषितोऽप्ययं । अपान्तरालादागत्य, प्रोक्तवानिति तद्यथा ||४|| आगतोऽहं दुतं राजन् ! गत्वा तत्र निरीक्ष्य च । न चलेन्मद्वचः पूर्वाभिमुख्येव वहत्यसौ ॥ ५ ॥ ततश्च गुरुणा साधुः, प्रेषितो नवदिक्षितः । | सोऽप्यचिन्तयदित्येत — द्विदन्ति गुरवोऽप्यदः ॥ ६ ॥ यत्पूर्वाभिमुखी गङ्गा, वहतीह पुरे परं । केनचित्कारणेनेह, भाव्यमेवं विमृश्य च ॥ ७ ॥ जानन्नपि गतो गङ्गां, स्वतश्च परतश्च सः । विशेषतो विनिश्चित्य, गुरुभ्योदो न्यवेदयत् ॥ ८ ॥ यथा-मया तावदिदं, ज्ञातं यदुत पूर्वणा । गङ्गा तवं पुनः पूज्याः, जानन्तीह महाशयाः ||९|| उभयोरपि चेष्टेयं, राज्ञः प्रच्छन्नपुरुषैः । निवेदिता भूमिभुजे, | प्रतिपन्नमनेन च ॥ १० ॥ साधूनां विनयः कामं, प्रतिबुद्धश्व शुद्धधीः । तत्सर्वमन्येनाऽप्येवं, कार्य विनयपूर्वकम् ॥ ११॥ इति गाथार्थः ।
४भावनाधिकारे राजपुत्रादपि साधौ विनया धिक्यम् ॥
॥ ३१६॥