________________
पुष्पमाला लघुवृति
॥२०८॥
इति लक्ष्मीधरादीनां कथानकं समाप्तम् ॥ यतश्चेहामुत्र चानन्तदुःखदायको रागद्वेषावत आह
सत्तू विसं पिसाओ, वेयालो हुयवहो य पज्जलिओ । तं न कुणइ जं कुविया, कुणंति रागाइणो देहे ॥ ३२९॥ व्याख्या - शत्रुर्विषं पिशाचो वेतालः प्रज्वलितो हुतवहश्च तद्दुःखं देहे न करोति, यत्कुपिता - बाहुल्यं प्राप्ता रागादयः कुर्वन्ति । शत्रुप्रभृतयो किदुःखमात्रप्रदानेऽपि सन्दिग्धाः, रागादयस्तु परभवेऽप्यस इख्यदुःखप्रदाः, अतस्त एव यत्नतो जेतव्या इति भावः। इति गाथार्थः ॥ ३२९ ॥ अथ रागादिविपाकस्य तज्जयस्य च फलमनन्तं पश्यन् सङ्क्षेपतस्तदाहजो रागाईण वसे, वसम्मि सो सयलदुक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ॥ ३२२ ॥ व्याख्य । —– यः प्राणी रागादीनां वशे, स निःशेषदुःखानां वशग इति मन्तव्यम् । यस्य तु वशे रागादयस्तस्य सर्वाण्यपि सौख्यानि वशवतीन्येवेति त एव जेतव्या इति गाथार्थः ॥ ३२२ ॥
इत्थं कषायान् विषमान् विभाव्य, प्रोज्झ्य प्रमादं प्रशमं श्रयध्वम् । rer शिवेऽनन्तसुखे सुखेन, लक्ष्मी लभध्वं लघु देहभाजः ॥ ९ ॥ इति पुष्पमालावृत्तौ भावनाऽधिकारे कपायनिग्रहलक्षणं प्रतिद्वारं समाप्तम् ।। ९ ।। अथ गुरुकुलवासद्वारं विभणिषुः पूर्वद्वारेण सह सम्बन्धगर्भा गाथामाह
पुव्वुत्तगुणा सव्वे, दंसणचारित्त सुद्धिमाईया । होंति गुरुसेवणुच्चिय, गुरुकुलवासं अओ वुच्छं ॥ ३२३॥
| ४ भावनाऽधिकारे अनन्तदुःखदायकत्वं रागद्वेषयोः ।
॥ २०८ ॥