________________
४मान
पुष्पमाला लघुवृत्ति ॥२०५॥
४भावनाधिकारे कषायनिग्रहानिग्रहफलम् ।
-SERIES RS
विरतिं न लभते, पूर्वप्रतिपनामपि च तां त्यजत्येवेति । तृतीयानां तु प्रत्याख्यानावरणकषायाणामुदये चारित्रं न लभते, लब्धमपि चोज्झतीति। सज्ज्वलनानां चतुर्थकषायाणामुदये लब्धस्यापि चारित्रस्य मालिन्यहेतवो वितथाचरणरूपाः सर्वेऽपि-मलोत्तरगुणविषया अतिचारा भवन्ति । सज्वलनोदये यथाख्यातचारित्रं तावत्सर्वथैव न लभते, शेषस्यापि सामायिकादिचारित्रचतुष्टयस्य मालिन्यजनकत्वेन देशघातिन एते इति भावः । तर्हि कथं शेषचारित्रस्य सर्वघातः? इत्याह-द्वादशानां पुनरनन्तानुबन्ध्यप्रत्याख्याना-1 वरणप्रत्याख्यानावरणरूपाणां कषायाणां प्रत्येकं समुदितानां वा उदये, मृलेन-अष्टमप्रायश्चितविशेषेण छिद्यते-ऽपनीयते यहोषजालं तन्मूलच्छेद्यं भवति, अशेषचारित्रघातकं दोषजातं तदुदये सम्पद्यत इति गाथाद्वयार्थः॥ ३१२-१३ ॥
अथ कपायनिग्रहानिग्रहफलस्य व्यक्तितो भणितुमशक्यत्वात्सामान्यतस्तदाहजं पिच्छसि जियलोए, चउगइसंसारसंभवं दुक्खं । तं जाण कसायफल,सोक्खं पुण तज्जयस्त फलं ॥३१॥ _ व्याख्या-यजीवलोके चतुर्गतिसंसारसम्भवं दुःखं प्रेक्षसे तत्कषायफलं जानीहि, सौख्यं पुनस्तञ्जयस्य-कषायजयस्य फल'मिति गाथार्थः॥ ३१४॥ यद्येवं तर्हि किं विधेयं कश्चेह परमार्थः ? इत्याह| तं वत्थु मुत्तत्वं, जं पइ उप्पजए कसायऽग्गी। तं वत्थु चित्तव्वं, जत्थोवसमो कसायाणं ॥ ३१५॥ एसो सो परमत्थो, एयं तत्तं तिलोयसारमिणं। सयलदुहकारणाणं, विणिग्गहोज कसायाणं ॥३१६ ॥ ||
व्याख्या-तद्वस्तु मोक्तव्यं, यत्प्रति-यद्वस्त्वाश्रित्योत्पद्यते कषायाग्निः । तद्वस्तु ग्राह्य, यत्रोपशमः कषायाणां । एष स परमार्थः, एतत्तत्वं त्रैलोक्यसारमेततू, सकलदुःखकारणानां विनिग्रहो यत्कषायाणामिति गाथाद्वयार्थः ॥ ३१५-१६ ॥
-UGC
॥२०५॥