________________
पुष्पमाला लघुवृतिः
॥२०४॥
इति गाथार्थः ॥ ३०९ ॥ कुत एतदित्याह
जं अयं चरितं, देसूणाए वि पुव्वकोडीए । तंपि कसाइयमित्तो, हारेइ नरो मुहुत्तेणं ॥ ३१० ॥
व्याख्या - पूर्वकोटयधिकायुष्कस्याकर्मभूमिजादेस्तावद्भतमेव न भवति, पूर्वकोट्यायुष्कस्यापि वर्षाष्टको पर्येव दीक्षा, अतो देशोनयाऽपि पूर्वकोटया यदर्जितं चारित्रं दुश्वरतपश्चरणलक्षणं, तत्सर्वमपि कश्चिन्नर : केनचित्कर्मवशेन कषायितमात्रोऽन्तर्मुहूर्त्तमात्र| मपि कालमनन्तानुबन्धिकषायोदये वर्त्तमानो हारयति विफलीकुर्यात्, तथाविधकषायतीव्रत्वे मृतः कदाचिन्नरकेष्वप्युत्पद्यत इत्यर्थ: इति गाथार्थः ॥ ३१० ॥ एतदेवाह -
जइ उवसंतकसाओ, लहइ अणंतं पुणो वि पडिवायं । न हु मे वीससियब्वं, थेवे वि कसायसेसम्मि ॥ ३११ ॥ व्याख्या– यद्युपशान्तकषायः - उपशमितस मस्तमोहनीय कर्मा, एकादशगुणस्थानवती, केवलिसमानचारित्रयुक्त इत्यर्थः, सोsपि कश्चित्पुनरप्यनन्तभव भ्रमणलक्षणमनन्तं प्रतिपातं लभते तदा भवद्भिरनुपशान्तकषायैः स्तोकेऽपि कषायशेषे न खलु विश्वसनीयं - नोपेक्षा कार्या, किन्तु सर्वथोपशमनीय एवेति गाथार्थः ॥ ३११ ।। अथ के कषायाः कं गुणं घ्नन्तीत्याहपढमाणुदये जीवो, न लहइ भवसिद्धिओ वि सम्मत्तं । बीयाण देसविरई, तइयाणुदयम्मि चारितं ॥ ३१२॥ सव्वे वि य अइयारा, संजलणाणं तु उदयओ हुंति । मूलच्छेज्जं पुण होइ, बारसहं कसायाणं ॥ ३१३ ।। व्याख्या - प्रथमानां - अनन्तानुबन्धिनां कषायाणामुदये, भवा - तस्मिन्नेव भवे भाविनी सिद्धिर्यस्यासौ भवसिद्धिकः, सोऽपि जीवः सम्यक्त्वं न लभते, तथा पूर्वलब्धमपि तत्तदुदये वमत्येवेत्यपि द्रष्टव्यम् । द्वितीयानां अप्रत्यारव्यानावरणकषायाणामुदये देश
४भावनाऽधिकारें कषायोदयवतः श्रामण्यनिष्फल
त्वम्
॥। २०४ ।।