SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥२०॥ % ARORAMAmers राज्ञः पाश्र्थात्पञ्चशतं पात्राणां सर्वालङ्कारप्रवराणां राजपुरुषाणां प्राप्य आषाढभूतिः स्वयं भरतीभूय पञ्चशतपात्रेस्समं तबाटकं नाट यति, यथा भरतक्षेत्रं साधितं, यथा निधयः प्राप्ताः, यथा द्वादशवर्षाणि राज्याभिषेकः, यथा च भुक्ताः कामभोगाः, यथा च राज्यं न ४भावनाऽधिकारे पालयति श्रीभरतस्तथा तेन साभिनयं सर्वमपि सत्यचित्तेन नाटयता नृपतिः प्रवरनाटकरसेन तथा प्रतोषं नीतस्सपरिजनः, यथे क्षुल्लकाषाढभूति तस्य मुकुटाधलङ्कारो दत्तः, शेषजनाभरणैश्च तत्र कनकस्तूपो जातः । तत आषाढभूतिः श्रीभरतनृप इव प्रविष्ट आदर्शगृहे, मुद्रा ४ मुनेरुदाहरणम्। पतनादिक्रमेण पञ्चशतपात्रैस्समं गृहीतश्रमणलिकः पञ्चमौष्टिकं लोचं कृत्वा नृपं धर्म लाभयित्वा निर्गतः. ततो हा हा !! किमतदिति भणन्नपप्रभृतिलोको बाहौ लगित्वा निवर्तयति तं, आषाढभूतिभणति-यदि भरतो दीक्षां गृहीत्वाऽपि विनिवृत्तस्तर्हि मामपि निवर्तयत, मुश्चतान्यथा असद्ग्रहं । ततो भावं ज्ञात्वा मुक्तः । शेषाणां पश्चश्तराजपुरुषाणां लज्जया कुलाभिमानेन दीक्षाममुश्चत भावतोऽपि परिणता । आषाढभूतिरपि आलोच्य प्रतिक्रम्य उग्रं तपः कृत्वा प्राप्तकेवलः सिद्धः । केचित्पुनरेवमाहुः-श्रीभरत इवादर्शगहे प्रविष्टः श्रीआषाढभूतिरड्-गुलीयकरत्नपातात्तथैव भरतवन्दुरिभावनया लब्धकेवलालोको गहीतद्रव्यलिङ्गो राजादीन् सम्बोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तव्रतो भव्यलोकमबोधयत् । अथ कुसुमपुरेऽप्यस्मिन्नाटके नर्तिते प्रवजितो बहुजनः, ततो नागरस्तदग्धं । आषाढभूतितुल्या:कियन्तो भविष्यन्ति तस्मात्प्रथममेवाहारादिषु लोभो न कार्यः इति लोभे आषाढभूतिकथा समाप्ता। तदेवं चतुर्णामपि कषायाणां प्रत्येकं विपाकमभिधायाथ समुदितानां तमाहसामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुंति। मन्नामि उच्छपुप्फंव, निरत्ययं तस्स सामन्नं ॥३०९॥ व्याख्या-श्रामण्यं-चारित्रमनुचरतो यस्य कषायाः क्रोधादय उत्कटा भवन्ति, तस्य श्रामण्यमिक्षुपुष्पमिव निरर्थकं मन्ये ॥ २०३ ॥ HARE MEArun-MRAPE%-
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy