SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥२०१॥ ४भावनाऽधिकारे कपिलकेवलिकथानकम् । MORRHEARomanamanna मानसेन दुष्कृतं प्रारब्धमिति भावयतः समुत्पेदे जातिस्मरण, ज्ञातं च पूर्वभवे पश्चशतसाधुमध्ये श्रामण्यं सुरलोकगमनं च । ततो ज्ञातभवपरमार्थो दीक्षां प्रपेदे, वेषो देवतयार्पितः, उपनृपमागत्य धर्मलाभो दत्तः, किमेतदिति राज्ञा पृष्टे इदमेवालोचितं, सन्तोपजलेन तृष्णाग्निरुपशामितः, धर्मोपदेशप्रदानेन सर्वोऽपि राजलोकः प्रबोधितः । ततो नवकल्पविहारेण विहरन उग्रं तपःकर्म समाचरन् स्वयम्बुद्धः कपिलः पष्ठे मासे केवललक्ष्मी पर्यणेषीत, तस्मिन् समये पूर्वभवसम्बन्धिनं साधुशतपश्चकं मृत्वा स्वर्गसुखमनुभूय राजगृहासनाटविषु सञ्जातकिरातसमूहं वीक्ष्य प्रतिबोधितुं जगाम । तस्करैः सेनापतिसमीपं. धृत्वा नीतः स ऋषिस्ततस्ते ननितं लग्नाः,ऋषिः-"अधुवेसासयम्मि, [संसारम्मि दुक्खपउराए । किं नाम हौज तं कम्म?,जेणाहं दुग्गई नगच्छिज्जा॥९॥" उत्तरा० ८ अ०]"संबुज्झह मा विमुज्झह, [संबोही पुणरावि दुल्लहा । नो एवणमंति राइओ, नो सुलभं पुणरावि जीवियं ॥९॥" सूत्रकृ. वेतालीयाध्ययन] इत्यादिध्रुवकान् कथयामास, सर्वेऽपि ते प्रतिबोधिता दीक्षां प्रतिपद्य क्रमेण मोक्ष यास्यन्ति, एवमन्यानपि जन्तून् प्रबोध्य कपिलः केवली सिद्धि प्राप । इति कपिलकेवलीकथा समाप्ता॥ अथ क्षुल्लककथोच्यते-राजगृहे नगरे श्रीसिंहरथराजा राज्यं करोति, अन्यदा तत्र गुणशिले चैत्ये धर्मरुचिमुरयः समागतास्तच्छिष्य आषाढभूतिः, सोऽन्यदा भिक्षार्थ व्रजन्नृपनटगेहे प्रविष्टः, तत्रैको मोदको रसगन्धाढयः प्राप्तः, ततो निर्गत्याचिन्ति-एष तावद्गुरूणां भविता, पुनरात्मनेऽन्यं याचयामीति चक्षुःकाणीकृत्य पुनर्गतो, दत्तो मोदकश्चैकः, पुनरेष उपाध्यायानां भवितेति मनसि निधाय कुब्जरूपं विधाय गतो, विहारितश्चैको मोदकः, एष सङ्घाटकसाधोभवितेति विचिन्त्य पश्चात्कुष्ठिरूपं विधाय पुनर्गतो, विहा. रितश्चेत्यादि क्षुल्लकचरित्रं प्रासादोपरि स्थितेन नटेन दृष्ट्वा चिन्तितं-एष सुन्दरो नटो भवति, केनाप्युपचारेण रक्ष्यः, लब्धोपायेन ॥ २०१ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy