SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पप्पमाला लघुवृत्तिः ॥१९९॥ ४ भावनाधिकारे कषायेषु लोभस्य बलीयस्त्वम् AAAAAE व्याख्या-क्रोधादयश्च सर्वे लोभादेव यतः प्रवर्तन्ते, अतोऽप्ययमेव गुरुतर इति शेषः। नहि सर्वथा निष्परिग्रहस्य शरीरमात्रेऽपि निर्ममस्य निरालम्बनाः क्रोधादयः प्रवर्तन्ते, किन्तु धनादिमूर्छावत एवेति भावः। ततः किं ? इत्याह-एष एव-लोभ एव | ततः प्रथम प्रयत्नेन निगृहीतव्यः, तस्मिन्निगृहीते चोक्तयुक्त्या निगृहीता एव शेषा इति गाथार्थः ॥३०६॥ यद्येवं तर्हि प्रभृतं विभवमेवार्जयित्वा तं शमयिष्याम इत्याहनयावहवेणुवसमिओ, लोभो सुरमणुयचक्कवट्टीहिं। संतोसोच्चिय तम्हा,लोभविसुच्छायणे मंतो॥३०७॥ ___व्याख्या-न च-नैव सुरमनुजचक्रवर्तिभिर्विभवेन लोभ उपशमितः, तस्मात्सन्तोष एव लोभविषोत्सादने-लोभविषपरा| करणे मन्त्र इव मन्त्र इति गाथार्थः ॥३०७॥ विभववृद्धौ च प्रत्युत लोभाऽपि वर्द्धत एवेत्याहजहजह वड्ढइ विहवो, तहतह लोभोवि वड्ढए अहिर्य । देवा इत्थाहरणं,कविलो वा खुड्डओ वा वि॥३०॥ व्याख्या-यथा यथा वर्द्धते विभवस्तथा तथा लोभोऽप्यधिक वर्द्रत एव, देवा अत्रोदाहरणं, तेषां हि विभवस्तावन्महानिति प्रतीतमेव, लोभोऽप्यागमे शेषजीवेभ्यो देवानामेवाधिक उच्यते, मर्येष्वपि च दृश्यते विभविनां प्रायो मूर्छाधिक्यं, कपिलश्वेहोदाहरण, तथा क्षुल्लकश्चापि । तत्र कः पुनः कपिलः?, उच्यते कौशाम्ब्यां पुर्यों राजदत्तबहुमानः कासवनामा पुरोहितस्तद्भार्या जसा, कपिलनामा पुत्रस्तस्य बाल्येऽगि पिता ब्रह्मस्वर्ग जगाम । राज्ञा तदधिकारोऽन्यस्मै सविद्यविप्राय प्रदत्तः। सोऽन्यदा शिरोधृतधवलातपत्रः पुरमध्ये भ्रमन् दृष्टस्तज्जनन्या। सा सदुःखं करुणस्वरं रोदितुं प्रवृत्ता । समीपस्थेन कपिलबालकेन पृष्टा-हे मातः! किमिति रोदिपि। हे वत्स! तब पितुरियं विभूतिरनेन प्राप्ता। RAMAP ॥१९९॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy