SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१९८॥ को न गृद्ध: ?, अपि तु सर्वेऽपीत्यर्थः । यथा रमणीमृत्युविषयप्रभृतयः पदार्था व्यामोहनादिष्वतीव समर्थाः सर्वशास्खलिताश्च तथा लोभोऽपीति भावः इति गाथार्थः ॥ ३०२ ॥ गरीयस्त्वमेव लोभस्य प्रकारान्तरेणाह - पियविरहाउन दुसहं, दारिद्दाओ परं दुहं नत्थि । लोभसमो न कसाओ, मरणसमा आवइ नत्थि ॥ ३०३ ॥ व्याख्या – प्रियविरहादन्यद्दुस्सहं नास्ति, दारिद्र्यात्परं दुर्भवं नास्ति, लोभसमानोऽन्यः कषायो न, मरणसमा अन्याssपन्नास्तीति गाथार्थः ॥ ३०३ ॥ शेषकषायेभ्यो लोभस्य गरीयस्त्वे किं कारणं ? इत्याहथोवा माणकसाई, कोहकसाई तओ विसेसऽहिया । मायाऍ विसेसऽहिया, लोहंमितओ विसेस हिया ॥ ३०४|| इय लोभस्सुवओगो, सत्तेवि हु दीहकालिओ भणिओ । पच्छा य जं खविज्जइ, एसोच्चिय तेण गरुययरो ॥३०५॥ व्याख्या - चतसृष्वपि गतिषु केवलिना चिन्त्यमानेषु जीवेषु स्तोकास्तावन्मान कषायवन्तः मानकषायोपयोगस्य ह्रस्वकालत्वात्स्तोका एव तदुपयोगे प्राप्यन्त इत्यर्थः । तेभ्यः क्रोधकपायवन्तो विशेषाधिकाः । तेभ्योऽपि मायोपयोगे वर्त्तमाना विशेषाधिकाः । तेभ्योऽपि लोभकषायोपयोगयुक्ता विशेषाधिकाः । एतेषां यथोत्तरमुपयोगकालस्य विशेषाधिकत्वादित्युक्तप्रकारे णैव शेषपायोपयोगमधिकृत्य लोभस्यैवोपयोगः सूत्रेऽपि - आगमेऽपि हुर्यस्माद्दीर्घकालिको भणितः । क्षपकश्रेण्यां चानिवृत्तिवादरसम्परायगुणस्थाने सर्वेष्वपि शेषकषायेषु क्षपितेषु यतः पश्चान्महता कष्टेन सूक्ष्मसम्परायगुणस्थानक एव लोभः क्षप्यते, तेनामुना कारणद्वयेन एष एव - लोभ एव गुरुतरः शेषेभ्य इति गाथार्थः ॥ ३०५ ॥ तृतीयमपि कारणमाहकोहाइणीय सव्वे, लोभाओच्चिय जओ पयति । एसोच्चिय तो पढमं, निग्गहियव्वो पयत्तणं ॥ ३०६ ॥ ४ भावनाधिकारे लोभ निग्रहोपायः ।। १९८।।
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy