________________
पुष्पमाला लघुवृत्तिः ॥१९७॥
तरणार्थ पितरमाह-तात! किं कमलां मातरमवजानासि ?, स आह-ननु स्वयेवोक्तं यदसावचोक्षशाटिकेति, साऽऽह-नासौ तां |
४ भावनाधिकार धावयतीति मया तदुक्तं, न शीलमालिन्येनेति । ततो व्यावृत्तचित्तो धनुस्तथैव कमलां स्नेहेनालोकते । वसुमत्यपि चिरं गृहवासे
मायाविपाके स्थित्वा प्रान्ते तापसीत्वं गृहीत्वा मृत्वा व्यन्तरेषु वेश्या जाता । ततो मृत्वा ऋषभपुरे सत्पथश्रेष्टिसता कमलिनी नाम्नी जाता।
वसुमतीकथा। चम्पायां सुव्रतश्रेष्ठिपुत्रवसुदत्ताय दत्ता सा। वसुदत्तस्य च केनचिन्नर्मणा कमलिन्याः कायॆकाणत्वकुब्जत्वकुरूपत्वादिदोषास्तथोक्ता | यथा तान् श्रुत्वा तामनिच्छन्नपि पित्रा परिणाय्यमानो वसुदत्तश्चक्षुर्दूषणमिषेण नेत्रयोः पढें बद्ध्वा तस्या आस्यमनालोक्य परिणीय पूर्वभवकर्मणा द्वादशवर्षाणि तां तत्याज। पित्रादिभिः प्रार्थ्यमानोऽपि नाङ्गीचक्रे । अन्यदा मतिमन्दिरमित्रेण तामानाय्य राजपत्नीवेषां विधाय क्वापि दर्शयित्वा वसुदत्तस्तदनुरक्तो व्यधायि, प्रोक्तश्च मा दुःखमावहेस्त्वमेनां सम्पादयिष्यामीति प्रकारेण प्राकर्मणः | क्षयाद्रतौ प्रीतिभाजौ जातो कमलिनीवसुदत्तौ । कालेनावधिज्ञानिनः पार्श्वे धर्म श्रुत्वा प्राप्तावसरा कमलिनी प्राह-भगवन्! किं कर्म मया पूर्वभवे कृतं ? येन तथा प्रियेण परित्यक्ता ?, ज्ञानी प्राह-वसुमतीभवे बहुलासखीत्वेन कमला द्वादशप्रहरांस्तीव्र प्रियावमाननादुःखे पातिता यत्त्वया तत्कर्मविपाकेन द्वादशवर्षाणि तवैवं दुःखं जातम् । प्रश्ने सति वसुमतीभवात्सविस्तरं पूर्वभवानुवाच ज्ञानी,तच्छत्वा संवेग प्राप्तौ कमलिनीवसुदत्तौ प्रव्रज्य दशमं देवलोकं गतो, इति मायायां वणिक्सुतावसुमतीकथा समाप्ता ॥ । अथ लोभस्य बलीयस्त्वमतिव्याप्ति चाहको लोभेण न निहओ?,कस्स न रमणीहिं भोलियं? हिययांको मच्चुणा न गसिओ?,को गिद्धो नेय विसएसु?
॥१९७॥ __व्याख्या-लोभेन को न निहतः ?, नारीभिः कस्य हृदयं न भोलितं-व्यामोहितं ?, मृत्युना च को न गूस्तो ?, विषयेषु ।।