________________
पुष्पमाला लघुवृत्तिः
॥१९४॥
व्याख्या - साम्प्रत तावदुष्पमासमानुभावाद्गुणलव एव कश्चित्प्राप्यते, न तु सम्पूर्णः कोऽपि ज्ञानादिको गुणः, सोऽपि च बहुभिः क्रोधादिभिर्दोषैः सङ्कुलो - व्याप्तः, ततस्तस्मिन्नपि बहुदोषसङ्कुले गुणलवमात्रे सति को नाम सविवेकः सन् गर्वितो भवेत् , न कश्चिदिति भावः । किं कृत्वा ? इत्याह- पूर्वपुरुषाणां - तीर्थकरगणधर चक्रवर्यादीनां विगतदोषं गुणनिवहं अनन्तज्ञानैश्वर्यादिरूपं श्रुत्वा । अयम्मावः- मात्सर्यादिदोषलेशेनाप्यकलङ्कितान् प्रत्येकमनन्तान् पूर्वपुरुषाणां ज्ञानैश्वर्यादिगुणान् श्रुत्वाऽनेकदोपकलङ्किते गुणलवे गर्वस्य कोऽवकाशः ?, इति गाथार्थः ॥ २९७ ॥
विभविना गुणिना च विशेष (तः ) एवाहङ्कारो न कर्त्तव्य इत्याह
साहेइ दोसाभावो, गुणोव्व जइ होइ मच्छरुत्तिष्णो । विहवीसु तह गुणी सु य, दूंमइ ठिओ अहंकारो ॥२९८॥ व्याख्या - प्रायो दोषाभावोऽपि यदि मत्सरोतीर्णो भवति, अहङ्कारमिश्रितो न भवति, तर्हि गुणवच्छोभत एव, अहङ्कारः पुनर्विभविषु गुणिषु च स्थितो दूनोति - शिष्टजनस्य महतीं मनोबाधां जनयति, अन्येनाप्यहङ्कारो न कर्त्तव्यो, विशेषतो विभविना गुणवता चेति भाव इति गाथार्थः ॥ २९८ ॥ अथ दृष्टान्तद्वारेण मानविपाक्रमाह-
जाइम एणिक्केण वि, पत्तो डुंबणं दियवरो वि । सव्वम एहिं कहं पुण, होहिंति ? न सव्वगुणहीणा ॥ २९९॥
व्याख्या - एकेनापि जातिमदेन हेतुभृतेन द्विजवरोऽपि - पुरोहितपुत्रोऽपि इम्बत्वं जन्मान्तरे प्राप्तः, ततः सर्वैर्जात्यादिविषयैर्मदैः क्रियमाणैः कथं पुनस्तैः सर्वैरपि सुकुलोत्पत्यादिगुणैर्हीींना न भविष्यन्ति १, अपि तु भविष्यन्त्येवेत्यक्षरार्थः ॥ २९९ ॥ अथ कथ द्विजवरेण डुम्बत्वं प्राप्तमित्युच्यते - गजपुर ( बरे) पुरे सोमदत्ताभिधपुरोधसः पुत्रो ब्रह्मदेवनामा सर्वविद्यागृहमपि
४ भावनाऽधिकारे विभविना गुण. वताऽपि च मानस्याकरणीयत्वम् ।
॥ १९४॥