________________
8/४ भावनाऽधिकारे
मानविपाके ब्रह्मदेवद्विजोदन्तम्।
बालकालाज्जातिमदं कुर्वन्ननेकयुक्तिभिः पित्रादिभिर्वारितोऽपि ब्राह्मणजातिं त्यक्त्वाऽन्यत्सर्वमवस्तु मन्यमानः सञ्चरद्भिः शब्दै
रप्यपावित्र्यशङ्कया पुनः पुनः सचेलस्नानं कुर्वन् जातिमत्तस्तिष्ठति । अन्यदा पितर्युपरने राज्ञा तं जातिमदग्रस्तं ज्ञात्वा तत्पदेऽन्यपुष्पमाला पुरोधाः कृतः। स ब्रह्मदेवो निर्धनो व्यवहाररहितो लोकनिरंशङ्कमुपहस्यमानश्चिन्तयति-सत्र मया मन्तवनं यत्र सर्वोऽप्यशुद्धजनो लघुवृत्तिः
कान दृष्टयाऽपि दृश्यते, न च सश्चरति क्वचिन्मार्गेऽपि । ततो निर्गतोष्टव्यां एकाकी मार्गमजानन् प्रान्तो डुम्बपल्ल्यां प्राप्तो ॥१९५॥
बहून् डुम्बान पश्यति, तावदेकेन डुम्बेनागत्य स्पृष्टः ऋद्धो डुम् निन्दन् शपति, डुम्बेन कुपितेन क्षुरिकका हतो मृत्वा तस्यैव डुम्बस्य सुतो जातः, तस्य दमन इति नाम कृतं । स च काणः खञ्जः कुब्जः पितुरप्युद्वेजकरूपः पापर्द्धिप्रभृतिबहुपापानि कृत्वा मृतः पञ्चमनरकपृथिव्यां नारको जातः। ततो मत्स्यभवान्तरितो नरकेषु भ्रान्त्वा प्रायः सर्वत्र हीनजातिषूत्पद्य महादुःखितो जातः । अथान्यदा कथमप्यज्ञानतपोऽनुभावाज्जातो ज्योतिष्केषु । ततो भरते पद्मखेटे नगरे कुन्ददन्ताया गणिकायाः मदननामा सुतो सुरूपः कलावान् विद्यावान् जातः । स च कृतज्ञः परोपकाररसिको गम्भीरस्तथापि जनो भणति-किमेप ? भो दारिकापुत्र!। ततो गुणानुरूपं फलं अप्राप्नुवन् कदाचिचित्ते चिन्तयति-धात्रा यद्यहं हीनजाती क्षिप्तस्ततोऽयं गुपाप्रकर्षः कथं कृतः? यदि चासो तत्कृतोऽधमा जातिः१, अथवा “सयलगुणमीलणेमु, सचं विहिणो परम्मुहा बुद्धी । रयणेहिं पूरिऊण वि, खारो जं निम्मिओ जलही ॥१॥” इत्यादि यावद्विषण्णश्चिन्तयति तावत्केवलिन आसन्नवने समवसृतं ज्ञात्वा तत्र गतः, धर्मदेशनां श्रुत्वा स्वस्थाधमजातिकारणमपृच्छत् । ततः केवलिवचनात्प्राग्भवान् विप्रभवादारभ्य ज्ञात्वा वैराग्याद्दीक्षां याचितवान् , दीक्षणानहेंजातिरपि केवलिनाऽतिशयज्ञानेनाराधको भावीति मत्वा दीक्षितः सम्यगाराध्य पर्यन्ते मासं पादपोपगमनानशनेन माहेन्द्रकल्पं देवो जातः,
reOSAEEGAAAAAAESAR
CRICKS
॥१९५॥