SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१९३॥ विबुधानां शोचनीयो भवति, किंबहुना ? बालानामपि हसनीयो भवतीति गाथार्थः ॥ २९३ ॥ किश्च - जइ नाणाइमओ वि हु, पडिसिद्धो अट्ठमाणमहणेहिं । तो सेसमयट्ठाणा, परिहरियव्वा पयतेणं ॥२९४॥ व्याख्या - यदि ज्ञानादीनां शुभानामपि पदार्थानामहं ज्ञानीत्याद्यात्मबहुमानरूपोऽपि मदोऽष्टविधमानमथनैस्तीर्थकरगण धरैः प्रतिषिद्धः, ततः शेषाण्यशुभानि जात्यादिमदस्थानानि बुद्धिमता प्रयत्नेन परिहर्त्तव्यानीति गाथार्थः ॥ २९४ ॥ विशेषेण ज्ञानमदस्या कत्र्त्तव्यतामाह दप्पविसपरममंतं, नाणं जो तेण गव्वमुव्वहइ । सलिलाओ तस्स अग्गी, समुडिओ मंदपुन्नस्स ॥ २९५ ॥ व्याख्या – जात्याद्यर्थविषयस्यापि दर्पविषस्योत्तारणार्थं किल ज्ञानमिष्यते यस्तु तेनापि गर्वमुद्रहति तस्यापुण्यवतो वराकस्य सलिलादध्यग्निरुत्थितो, ज्ञानस्य सलिलकल्पत्वाद्दर्पस्य त्वग्नितुल्यत्वादिति गाथार्थः ।। २९५ ॥ ननु दर्पे क्रियमाणे को दोषो ? येन प्रतिषिद्वयत इत्याशङ्क्याह धम्मस्स दया मूलं, मूलं खंती वयाण सयलांण । विणओ गुणाण मूलं, दप्पो मूलं विणासस्स ॥ २९६॥ व्याख्या- यथा धर्मस्य जीवदयादयो (१) मूलं यथा च सकलानां व्रतानां क्षन्तिर्मूलं यथा विनयो गुगानां मूलं, तथा विनाशस्य दर्पो मूलं - मुख्यमेव निबन्धनमिति गाथार्थः ॥ २९६ ।। अथवा इदानीं गर्व करणावकाश एव नास्तीत्याहबहुदोससंकुले गुण लवम्मि को होज्ज गव्विओ इहई ? । सोऊण विगयदोतं, गुणनिवहं पुव्वपुरिसाणं ॥ २९७॥ ४ भावनाऽधिकारे गुरुतरत्वं मानविपाकस्य । ॥१९३॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy