________________
पुष्पमाला
लघुवृत्तिः ॥१९१॥
प्रासुकाहारं, माऽस्माकं दृष्टिविषेण प्राणिघातो भूयादिति । स तु बिलेऽपि अधोमुखः कृतानशन स्तिष्ठति । इतश्च वसन्तपुरे ऽरिमननृपतेः सुतः सर्पेण दष्टो मृतः, ततः कुपितो भूपो भुजङ्गान् स्वयमन्यैश्च मारयति, यो यः सर्प हत्वा शिरो राज्ञः समर्पयति तस्य दीनारमर्पयति । अन्यदैको गारुडिको मन्त्रौषधैर्विलात् सर्पान्निष्कास्य शिरो गृहिंस्तं सर्प निष्कासयति, सोऽपि धर्मबुद्धयाऽधोमुखः पुच्छेन निर्गच्छति, तावत्स गारुडिको निर्गतं निर्गतं छिनत्ति, ततो दृढं दुःखे उत्पद्यमाने भुजङ्गः सम्यक् संवेगात्सहते | एवं सोऽपि गारूडिकेन हतः, सर्वेऽपि नृपस्य दर्शिताः, लब्धमुचितं द्रव्यं । अत्रान्तरे भूपः केनापि नागदेवेन पुत्रस्ते भविष्यतीत्युक्त्वा सर्पवधान्निवर्त्तितः, तदा च स भुजङ्गो मृत्वा तत्पुत्रत्वेनोत्पन्नस्तस्य नागदत्त इति नाम कृतम् । स च रूपादिगुणाकरोऽपि धर्ममेव पुरुषार्थं मन्यमानः साधूनुपास्ते । अन्यदा सञ्जातजातिस्मृतिः पितुप्रभृतिंस्त्यक्त्वा संविग्नः प्रव्रजितः, पालयति निष्कलङ्कं चारित्रं, केवलं क्षुधा बहुस्ततो द्वित्रिर्भुङ्क्ते निरवद्यमाहारं, ततः 'कूरगडूयक' इति प्रसिद्धाख्योऽजनि । तस्मिंश्च गच्छे चत्वार एकद्वित्रिचतुर्मासिकाः क्षपकाः सन्ति, तान् दृष्ट्वा चिन्तयति - सफलमेतेषां जीवितं, ये कर्मशैलकुलिशमेवं तपः कुर्वन्ति, अहं पुनर्मन्दभाग्यो, यः प्रत्यहं बहुवारमाहारं गृण्हामि, इति भावनाशुद्धमना वैयावृत्येनापि महती निर्जरा इति विचिन्त्य क्षपकानां वैयावृत्याभिग्रहं गृहीतवान् । अन्यदा क्षपकानतिक्रम्य देवतया स एव प्रणतः साधुः, ततो निवर्त्तमाना सा चातुर्मासिकक्षपकेन कोपेन वस्त्राञ्चले धृता भणिता- पापे कटपूतने! किमिह प्राप्ताऽसि ? यन्महाक्षपकानुल्लङ्घ्य त्रिकालभोजिनं वन्दसे, ततो देवतयोक्तं- तपस्विन् ! मा कुरु अकार्य कोपं, भावक्षपकं वन्दे, न द्रव्यक्षपकं । जानीथ यूयं स्वयमेव यादृशी आत्मनो द्रव्य क्षपकता सुलभाऽनन्तशः प्राप्ता च । एष त्रिकालं भुङ्क्ते इति यद्भणसि स मत्सरः, ईदृशानां नित्यमुपवास एव यदुक्तं
४ भावनाऽधिका क्रोधविपाके
कूरगड्यक
मुनिवृत्तम् ।
॥१९१॥