SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१९०॥ ४भावनाधिकारे क्रोधविपाके कूरगडूयक मुनिवृत्तम् । ARREST कर्पासपाण्डुरदेहा क्षीणाङ्गी जाता। ततो दैवात्कथमप्यत्रागतेन ज्येष्ठेन तबन्धुनासौ दृष्टा प्रत्यभिज्ञाता, कथश्चिन्नीता स्वगेहं, ||लू यदेवं तया पदे पदे दुःखं अज्ञानकोपकरणादनुभृतं, ततः संविग्ना साध्वीनां पार्श्व धर्म श्रुत्वा ब्रह्मव्रतं प्रतिपद्य मार्यमाणाऽप्यहं कस्याप्युपरि कोपं न करिष्ये इति घोरमभिगृहं गृहीत्वा तिष्ठति । अन्यदा तस्याः शरीरबलकरणव्रणरोधनार्थ लक्षपाकतैलघटत्रयं कृतं, तत्तैलार्थ च मुनयोज्यदा तत्रागताः, अचकारितभट्टिकया दास्याः सकाशाद्घट आनायितः, अत्रान्तरे शक्रेणाचकारितभट्टिकायाः क्षमादृढत्वं प्रशंसितम् । तदैको देवोऽसहमानस्तदा तत्रागत्य दास्या हस्तात्तैलघटं स्फोटयतिस्म, द्वितीय आनायितः | सोऽपि स्फोटितः सुरेण, अथ प्रशस्तभावा स्वयं गत्वा तृतीयं घटमानीय साधुभ्यस्तैलं दत्वा हृष्टा । ततः सुरः प्रत्यक्षीभूय स्तुत्वा स्वर्ग गतः, साधवोऽपि स्वोपाश्रयं गताः। इतराऽपि गतगर्वा श्रावकधर्म पालयित्वा स्वर्ग गता। एवं कोपेन दुःखं प्राप्ता, | | क्षमया पुनरसौ सुरैर्नता, इति अचङ्कारितभट्टिकाकथासमाप्ता॥ अथ क्षुल्लककथोच्यते-क्वापि गच्छे मासक्षपकः साधुरासीत् , अन्यदा मास[क्षपण]पारणके भिक्षायां क्षुल्लकेन समं बजता तेन प्रमादान्मण्डूकी चम्पिता मृता। ततः क्षुल्लकेनोक्तं-महर्षे ! एषा त्वया पादेन चम्पिता, ततः क्रुद्धः क्षपकः पूर्वमृतास्ता दर्शयन् प्राह-रे रे दुष्ट ! किमेपाऽपि मया हता?, अन्या अपि कि मया हता, ततो मात्र ज्ञात्वा क्षुल्लकस्तूष्णीकः स्थितः, अथाऽऽवश्यककाले स्वस्थावस्थं क्षप प्रत्याह क्षुल्लक:-'मण्डूकीमालोचय महर्ष!'। ततोऽधिकं ज्वलितकोपानलः क्षुल्लकाभिमुखं धावन् क्रोवान्धः स्तम्भे आस्फाल्य मर्मप्रदेशे स्फुटितशिरो मृत्वोत्पन्नो ज्योतिफेषु, ततश्युत्वा [उत्पन्नः] क्वाप्यरण्ये दृष्टिविषयुतानां पूर्वभवविराधितश्रामण्यानां भुजङ्गानां कुले, जातिस्मृतिश्चैषामस्तीति ते सर्वे च रात्रौ भ्रमन्ति, भुञ्जते च मान
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy