________________
पुष्पमाला लघुवृत्तिः ॥१८७॥
४ भावनाधिकारे कषायचतुष्कस्य गत्यापेक्षिकमल्पबहुत्वम् ।
A
चउसु वि गईसु सव्वे, नवरं देवाण समहिओ लोहो । नेरइयाणं कोवो, माणो मणुयाण अहिययरो॥२८५॥ माया तिरियाणहिया,
व्याख्या-चतसृष्वपि नारकादिगतिषु प्रत्येकं सर्वेऽप्येते क्रोधादयः सभेदाः प्राप्यन्ते, नवर-मयं विशेषः-य वानां शेषकषायापेक्षया लोभस्समधिको, रम्यप्रासादवनकामिनीरत्ननिवहेषु मूर्छाधिक्यसम्भवात् । नारकाणां तु क्रोधस्समधिको, यातनाकर्तृष्वावेशाधिक्यसम्भवात् । मनुष्याणां तु मानोऽभ्यधिकोष्टानामपि जात्यादिमदस्थानानां प्रकर्षवत्वात् । माया तिरवामधिका, बहुमिर्मायाप्रयोगैस्तेषामाहारादिप्राप्तेस्तत्स्वभावत्वाचेति सपादगाथार्थः ॥ २८५॥
मेहुणआहारमुच्छभयसन्ना । सभवे कमेण अहिया, मणुस्सतिरिअमरनिरयाणं ॥२८६ ॥
व्याख्या-अत्र च क्रमेण सम्बन्धः, तद्यथा-स्वभवे-स्वस्थाने आहारादिसंज्ञाऽपेक्षया मनुष्याणां स्वभावत्वादेव मैथुनसंज्ञा समधिका, तिरश्चां तु शेषापेक्षया आहारसंज्ञा, अमराणां तु "मुच्छ"त्ति परिग्रहसंज्ञा, नारकाणां तु भयसंज्ञा समधिकेति गाथार्थः ॥२८६॥
अथ विपाकद्वारमाहमित्तं पि कुणइ सत्तुं, पत्थइ अहियं हियं पि परिहरइ। कज्जाकजं न मुणइ, कोवस्स वसंगओ पुरिसो॥२८७॥
व्याख्या-मित्रमपि-सुहृदमपि तथाविधदुर्वाक्यानिष्टापादनादिभिः शत्रु करोति, तथा यदेव स्वस्याहितं तदेव प्रार्थयते, हितं च परिहरति, कार्याकार्य च न जानाति, कः ? इत्याह-कोपस्य वशङ्गतः पुरुष इति गाथार्थः ॥ २८७॥ तथा
AE%ARALE
CPEPEATESPE
॥१८७॥