SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ RECE पुष्पमाला लघुवृत्तिः ॥१८६॥ सज्वलनः, कष्टनिवर्तनीयः प्रदीपादिखञ्जन( कज्जल रागसमानः प्रत्याख्यानावरणः, कष्टतरापनेयः कर्दमरागतुल्यो प्रत्याख्यानावरणः, (कृमिराग)रक्तपट्टसूत्र(राग)वत्कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ इति गाथाद्वयार्थः ॥ २८२-२८३ ॥ ४ भावनाधिकारे अथावस्थितिकालमानेनापि सज्वलनादीनां स्वरूपं गतिद्वारं चाह कषायाणां पक्खचउमासवच्छर-जावज्जीवाणुगामिणो भाणिया। देवनरतिरियनारय-गइसाहणहेयवो णेया ॥२८४६ स्थितिमानम् । व्याख्या-पक्षं यावदवस्थितिर्येषां ते सज्वलनाः कषायाः, परतो यावच्चतुर्मासावस्थितयः प्रत्याख्यानावरणाः, परतः संवत्सरं यावदप्रत्याख्यानावरणाः, यावज्जीवानुगामिनस्त्वनन्तानुबन्धिनो भणिताः, तथा च देवगतिसाधनहेतवः सज्वलनाः, नरगतिसाधनहेतवः प्रत्याख्यानाः, तिर्यग्गतिसाधनहेतवोऽप्रत्याख्यानाः, नारकगतिसाधनहेतवोऽनन्तानुबन्धिनो ज्ञेयाः । सज्वलनोदये मृतो देवेष्वेव गच्छति, प्रत्याख्यानावरणोदये मनुष्येषु अप्रत्याख्यानावरणोदये तिर्यक्षु अनन्तानुबन्ध्युदये तु मृतो नरकगतावेव गच्छतीति भावः । इदं च स्थितिगतिव्यावर्णनं "फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं" इत्यादि। वद्व्यवहारनयमाश्रित्य कषायबहुलजनप्रतिबोधनार्थ देशनामात्रं, बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि सज्वलनाद्यवस्थितेः केषाश्चित्संयतादीनां चावर्षादिकाले [ऽक्षामणादिश्रवणात्तथा] प्रत्याख्यानावरणानां [अप्रत्याख्यानावरणानां] अनन्तानुबन्धिनां चा[वा] तमुहूर्तादिकालमप्युदयश्रवणात् , अनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केपाश्चिदुपरिमोवेयकेषत्पत्तिभणनात् , प्रत्याख्यानावरणोदयवतां च देशविरतानां देवगतिनिश्चयात् , अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिनिर्णयादित्यल ॥१८६॥ प्रसङ्गेनेति गाथार्थः ॥२८४ ॥ आदिशब्दसगृहीतार्थाधिकारमाह SONG
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy