________________
पुष्पमाला लघुवृत्तिः ॥१८॥
जलेरणुंपुढे विपवय-राईसरिसो चउव्विहो कोहो। तिणिसलयाकट्टेट्ठिय-सेलत्थंभोवमो माणो ॥२८॥ मायाऽवलेहिगोमुत्ति-मिंढसिंगघणवंसिमूलसमा। लोहो हलिइखंजण-कदमकिमिरागसामाणो ॥२८३॥ ६
bha भावनाधिकारे ___ व्याख्या प्रथमार्द्ध प्रत्येकं राजिशब्दसम्बन्धाजलराजिसमानः सचलनः क्रोधः, यथा जले रेखा क्रियमाणा शीघ्रमेव ।
कषायभेदनिरूनिवते, तथा यः कथमप्युत्पन्नोऽपि सत्वरमेव व्यावर्त्तते स सज्वलनः क्रोध इत्यर्थः, रेणुरेखातुल्यस्तु प्रत्याख्यानावरणः,
पणम् । अयं हि रेणुमध्यविहितरेखावच्चिरेण निवर्तत इति भावः, पृथ्वीराजिसमानोऽप्रत्याख्यानावरणः, यथा स्फुटितपृथ्वीसम्बन्धिनी रेखा कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपीति भावः, विदलितपर्वतरेखातुल्यस्त्वनन्तानुबन्धी, कथमपि निवर्तयितुं न शक्यत इत्यर्थः, इति चतुर्विधः क्रोधः। मानस्तु तिनिसो-वनस्पतिविशेषस्तस्य लतोपमः मुखेनैव नमनीयः सज्वलनः, काष्ठोपमः प्रत्याख्यानावरणो मानः, यथाऽग्निस्वेदादिभिः कष्टेन काष्ठं नमति तथाऽयमपीति भावः, अस्थि-हड़, तदुपमः कष्टतरनमनीयोऽप्रत्याख्यानावरणो मानः, शिलायां घटितः शैलः, स चासो स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः। माया पुनरुल्लिख्यमानानां धनुरादीनां याऽवलेखिका वक्रत्वापा, तत्समाना सा सज्वलनीत्युच्यते, सुखेनैवार्जवमापादनीयेत्यर्थः, गोमूत्रिकासमाना किञ्चित्कष्टेनापनीया प्रत्याख्यानावरणी माया, एवं मेषशृङ्गोपमा कष्टतरनिवर्त्तनीया अप्रत्यख्यानावरणी माया, धनं-दृढं यद्वंशीमूलं, तत्समाना त्वनन्तानुबन्धिनी, यथा निबिडवंशीमूलस्य कुटिलता किल वहिनाऽपि न दह्यते, एवं या कुटिलता कथमपि न निवर्तते साऽनन्तानुबन्धिनी मायेत्यर्थः । लोभस्तु हरिद्रारागोपमः सुखनिवर्तनीयः ॥१८५॥ + 'सकारस्य दीर्घत्वं प्राकृत्वात् ।
BAE%