SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ४ भावनाधिका कषायनिग्रहोपदेशस्तत्स्वरूपंच तस्मात्कारणाद्यथार्थनामानः कषायाः क्रोधादयो भण्यन्ते । भवलाभहेतवश्च गौणवृत्त्यापि स्युरित्याह-संसारकारणानां असंयमादीनां | पुष्पमाला ||| मध्ये मूलं-प्रधानं कारणं कषायाः, के ते? इत्याह-ते च क्रोधादयः, आदिशब्दान्मोनमायालोमा इति गाथार्थः ॥२७॥ लघुवृत्तिः || भेदद्वारमभिधित्सुराह॥१८४॥ || कोहो माणो माया, लोभो चउरो वि होंति चउभेया। अणअपञ्चक्खाणा, पञ्चक्खाणा य संजलणा॥२८०॥ ___ व्याख्या-क्रोधादयश्चत्वारोऽपि प्रत्येकं चतुर्भेदा भवन्ति, तदेवाह-सूचनात्सूत्रस्यानन्तानुबन्धी क्रोधः, अप्रत्याख्यानावरणः क्रोधः, प्रत्याख्यानावरणः क्रोधः, सज्वलनः क्रोध इति । एवं मानाद्यभिलापेनापि चत्वारो भेदाः प्रत्येकं वाच्या इति गाथार्थः ॥ २८ ॥ अनन्तानुबन्धिन इति का शब्दार्थः? इत्याहबंधति भवमणतं, ते(य)ण अणंताणुबंधिणो भणिया। एवं सेसा वि इमं, तेसि सरूवं तु विन्नेयं ॥२८१॥ व्याख्या-ये कषाया उदयप्राप्ताः सन्तोऽनन्तं भवमनुबध्नन्ति-भ्रमणीयत्वेनावस्थापयन्ति ते.च) सम्यक्त्वमात्रस्यापि घातका अनन्तानुबन्धिनः क्रोधादयस्तीव्रतमा इत्यर्थः। एवं “सेसा वि"ति यथाऽनन्तानुबन्धिनो व्युत्पादितास्तथा शेषा अपि व्युत्पादनीयाः, तथाहि-नञोऽल्पार्थत्वादल्पं काकमांसविरत्यादिमात्रमपि प्रत्याख्यानमावृण्वन्ति ये ते अप्रत्याख्यानावरणाः क्रोधादयस्तीव्रतरा इत्यर्थः, तथा ये प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्ति-निवारयन्ति ते प्रत्याख्यानावरणाः क्रोधादयोऽद्यापि तीव्रा इत्यर्थः, चारित्रिणमपि ये सवलयन्ति-क्षणमात्रमौदयिकभावमानयन्ति ने,सज्वलनाः क्रोधादयो मन्दतामापना इत्यर्थः । अथैतेषां | किञ्चिद्विशेष व्याचिरव्यासुराह-तेषां पुनरनन्तानुबन्ध्यादिक्रोधादीनामिदै पश्चानुपूर्व्या वक्ष्यमाणं स्वरूप विज्ञेयमिति गाथार्थः ॥२८१॥ किं पुनस्तदित्याह GEMECEBHADRArc ॥१८४॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy