________________
पुष्पमाला लघुवृत्तिः ॥१८॥
विचित्ररसमोक्ता तु ललितगेयं रतिसुखं कर्पूरागरुचन्दनविलेपनादि व प्रार्थयते, यथा च मूले सिक्ते तक फलति मूले शुष्के शेषाङ्गान्यपि शुष्यन्ति तथेन्द्रियतारपि रसने प्रीणिते बहुभिर्विकारः फलति तस्मिन पुनः शुष्के शुष्यति, दिदमेव दुर्जेय, अस्मिश्च जिते निश्शेषाणि र भावनाधिजितानि । अत्रोदाहरणम्
Dकारे इन्द्रियजभूवलयनाम्नि पुरे निजकर्मानृपः, तस्य द्वे भार्य-शुमसुन्दरी अशुमसुन्दरी च। प्रथमायाः पुत्रो विबुधनामा दक्षः कृतज्ञः ||पाणये गुणदोषसरलो धीमान, द्वितीयस्याः सुतो मतिविकलाख्यः पूर्वस्माद्विपरीतगुणो विशेषतो रसलोलतया लोके रसलोल इति विख्यातः । निरूपणम्। यथाकाम खाद्याखाद्य पेयापेयं च मुक्ते, सोऽन्यदा रोगैाप्तो वैद्यैर्लाना (2) यां प्रोक्तोऽपि न चलनं करोति, गाढं बहुमी रोगैः पीडितोऽन्यदा भ्रातुर्वचसा दाक्षिण्याल्लचन्ने स्थितो भ्रातरं मोज्यै भोजनं कुर्वाणं दृष्ट्वा चिन्तयति, यथा-दुष्टोऽयं, मां अत एव वारयति भोजनात. यदामेवैकाकी सर्व स्निग्धमधुरं भजे, नूनं सपत्नीजो भ्राता वैरी स कथं हितः । इति। ततो रे !! मां मोज्याभिवार्य मवान् मुङ्क्ते ? इत्युक्त्वा स क्षुरिकामादाय भ्रातरं हन्तुं दधावे, विबुधो पातं वश्चयित्वा वैराग्यात्प्रावाजीत, लोलया समं चूर्णितेन्द्रियसैन्यः प्राप्तकेवल: सोऽहमिहागतः । विमलयशानृपेण सकौतुकं पृष्ट-भगवन् ! विकलमतिना पुरतः किं प्राप्तम् ?, भगवानाह-स च राजा जातो विशेषेण रसगृद्धो ज्वलितो वनदव हवन किश्चित्त्यजन् पलं भुङ्क्ते, अन्यदा सूपकारेण पलपाके कृते तन्मार्जार्या भुक्तं, भीतेन मूपकारेण क्यापि मृतस्य पालकस्य पलं ( लब्धं, तदेव ) लात्वा संस्कृत्य मोजितो नृपः । ततो मनुष्यपले लुब्धो बालकान प्रतिदिनं नगराद्भुजन मन्त्रिभिध्वाऽरण्यानीं नीतः। अस्माल्लघुभ्राता राज्ये स्थापितः, अन्यो रक्षो भुत्वा मनुष्यानं भुङ्क्ते, अर्थकदा मिल्लार्भके च तक्षणे क्रुद्धेन मिल्लेन वाणेन विद्धो मृतो गतसप्तमावनौ । ततोऽनन्तं संसारं भ्रमिष्यति । इत्याकर्ण्य विमलयशो नृपः प्रव्रज्य प्राप्तकेवलो विबुधकेवलिना समं सिद्धः, इति
॥१८.1