________________
पुष्पमाला लघुवृत्ति:
॥१७८॥
गतः । एवं श्रोत्रनिमित्तं सुभद्रा मृता, परलोकेऽपि दुःखमनुभविष्यति, आदिशब्दादन्येऽपि समयप्रसिद्धा ज्ञातव्याः ।
इति श्रोत्रे सुभद्राकथा समाप्ता ॥
कानपुरे श्री निल श्रेष्ठी, यशोभद्रा मार्या, तयोः सुतो जातः, सर्वलक्षणलक्षितोऽपि लक्षणविद्भिश्चलचक्षुस्त्वात्स्त्रीलोलो मावीति प्रोक्तः, सोऽपि बालकालायां यां नारीं पश्यति तत्र तत्र दृष्टि बध्नाति इति जनैर्लोलाक्ष इत्याख्यया जल्पितः यौवने पुनः काचिद्रूपवतीर्युबतीष्ट्वा तदनु घावन् काञ्चिदालिङ्गन् तद्व्यतिकरेण स्थानेस्थाने जनैः छुट्टितो दुःखानि विषहते । अन्यदा मगधदेशे रूपवती स्त्रीः श्रुत्वा व्यवसायादिमिषेण धनं धनमादाय गतस्तत्र हवं गृहीत्वा व्यवहरति । तत्र काञ्चिद्रपवर्ती लोलाक्षत्वेन स्पृशन् बद्धो राजपुरुषैर्धनं सर्वे गृहीतं, राज्ञोऽग्रे नीयमानोऽन्तरा पितुर्मित्रेण द्रुमनाम्ना श्रेष्ठिनोपलक्ष्य बहुद्रव्यैर्मोचयित्वा स्वगृहे नीतः स तत्रापि श्रेष्ठमार्यायां धनवत्यां रूपवत्यां लुब्ध:, तज्ज्ञात्वा श्रेष्ठी तद्वैराग्यात्सर्वं त्यक्त्वा प्रानाजीत् । लोलाक्षस्तु तद्गृहवासेऽप्यन्यदा सुरसुन्दरीनानीं राजपत्नीं रूपवर्ती दृष्ट्वा धृतिमलममानो रात्रौ तद्गृहं प्रति व्रजन् केनचिद्विद्यासाघकेनान्तराले घृतोऽरण्ये गृहीत्वा विद्यासाधनमांसार्थं प्रतिदिनं छेदितसर्वाङ्गांशोऽत्रैव नरककल्पं दुःखमनुभवन् विद्यासाधकं प्रत्याह-भोः ! मम समाध्यर्थमेकदा राजपत्नीं दर्शय पश्चाज्जीवितं हर, इत्यादि मानसशारीरदुःखसन्तप्तस्तन दिनानि गमयति, तावदेकः काञ्चनपुर निवासी श्रीनिलयश्रेष्ठिनो बालमित्रो भुवनोत्तमनामा सार्थवाहो वाणिज्ये आगत्य विनिवृत्त स्तस्मिन् प्रदेशे विश्राम्यन् दैवयोगाल्लोलाक्षं वीक्ष्य गतस्तत्समीपे सपरिवारः । लोलाक्षोऽपि प्रणष्टमयः स्वस्वरूपं प्रोक्तवान् ततस्तेनौषधैः शरीरपरिकर्मणां कारयित्वा सज्जीकृत्य मुक्तः, पुनः राशीदर्शनार्थे मोहितो राजगृहे गतः स्व [१स गृहे] धनवत्या 'का इयन्ति दिनानि स्थितः ११ इति पृष्टे वस्त्वन्तरेणोत्तरं कृतवानं । ततः सुरसुन्दरीविरहनटितो राजभवनं गतश्चक्षुर्लोलः, राज्ञीं दृष्ट्वा तां प्रति धावन् राजपुरुषैर्ववा
४ भावनावि कारे चक्षुर्विषयासक्तौ लोलाक्षाख्यानकम् ।
॥१७८॥