________________
पुष्पमाला लघुवृति:
॥१७६॥
कः पुनरिन्द्रियैर निगृहीतैर्दोषः १ इत्याह
तह सूरो तह माणी, तह विक्खाओ जयम्मि तह कुसलो । अजियंदियत्तणेणं, लंकाहिवह गओ जिहणं ॥ २७० ॥ व्याख्या—‘तथा' तेन लोकप्रसिद्धेन प्रकारेण शूरः, तथा 'मानी' अहङ्कारी, तथा जगति [ विख्यातः ] - प्रसिद्धस्तथा कुशलः, सोऽपि लङ्काधिपती रावणः सीताहरणाद्यभिव्यङ्गेना जितेन्द्रियत्वेन विभवयशोजीवितनाशलक्षणं निधनं गतः, किं पुनरितर: १ इति गाथार्थः ॥ २७० ॥ रावणकथानकं तु लोकेऽप्यतिप्रसिद्धमेवेति न किञ्चिदेवोच्यते, यदि वा रावणः शूर एव न भवतीत्याहदेहट्टिएहिं पंचहिं, खंडिज्जह इंदिएहिं माहप्पं । जस्स स लक्खंपि बर्हि, विणिजिणतो कह सूरो १ ॥ २७२ ॥ व्याख्या – देहस्थितैः पश्चभिरिन्द्रियैर्यस्य सामर्थ्य खण्ड्यते स बहिः पुरुषलक्षमपि विनिर्जयन् कथं शूरो १, न कथञ्चिदिति गाथार्थः || २७१ || कस्तर्हि शूरः १ इत्याह
सोच्चि य सूरो सो चेव, पंडिओ तं पसंसिमो निचं । इंदियचोरेहिं सया, न लुंटियं जस्स चरणघणं ॥ २७२ ॥ व्याख्या - स एव शूरः स एव पण्डितः, तमेव नित्यं प्रशंसामो, यस्य चरणधनमिन्द्रियचौरैर्न लुण्टितमिति गाथार्थः ॥ २७२ ॥ अथोदाहरणाद्वारेणोपदेशमाह
सोण सुभद्दाई, निया तह चक्खुणा वणिसुयाई । घाणेण कुमाराई, रसणेण हया नरिंदाई ॥ २७३ ॥ फार्सिदिएण वसणं, पत्ता सोमालियानरेसाई । इक्किकेण वि निहया, जीवा किं पुण समग्गेहिं ? ॥ २७४ ॥
४ भावनाविकारे इन्द्रियजयाजये गुणदोषनिरूपणम् ।
॥१७६॥