________________
पुष्पमाला लघुवृत्तिः ॥१७५॥
चक्षुः पुनरुत्कृष्टतो योजनलक्षात्सातिरेकाद्रपं गृह्णाति, विष्णुकुमारादेहिं कृतसाधिकलक्षयोजनमानवैक्रियदेवस्य स्वचरणपुरोवर्तिगर्ताद्यन्तर्गत लेष्ट्वादिकं पश्यतश्चक्षुषः सातिरेकयोजनलक्षविषयता द्रष्टव्या, एतच्चामासुरपदार्थापेक्षयोक्तं, भास्वरं त्वधिकमपि पश्यति, यथा"पणसयसत्तत्तीसा, चउतीससहस्सलक्खहगवीसा । पुक्सरदीबड्ढनरा, पुल्येणऽवरेण पिच्छंति ॥ १॥” इति ।
भावनाधिशेषाणि पुनर्घाणरसनस्पर्धनेन्द्रियाणि यथासङ्ख्यं गन्धं रसं प च प्रत्येकमुत्कृष्टतो योजननवकादागतं गृहन्ति, न परतस्तथाहिकश्चित्पटुघ्राणादिशक्तिर्देवादिः कर्पगदीनामुत्कृष्टतो नवयोजनान्तरितानामपि आगतं गन्धं गृह्णाति, तिक्तकटुकादिरसं च वेत्ति, शीतादि- तितद्विषयपरिस्पर्शमपि परिच्छिनत्तीति सार्द्धगाथार्थः ।। ६६-६७ ॥ जघन्यत: पुन: कियदुरस्थितं स्वविषयमेतानि गृह्णन्तीत्याइ
|P माणनिरूपणम्। अंगुल असंखभागा, मुणंति विसयं जहन्नओ मोत्तं । चक्खं तं पुण जाणइ, अंगुलसंखेजभागाओ॥२६॥ ____ व्याख्या-चक्षुर्मुक्त्वा शेषाणि सर्वाण्यपि इन्द्रियाणि जघन्यतोऽङ्गुलासङ्ख्येयमागे स्थितं प्रत्येकं म्नविषयं गृहन्ति, तर्हि चक्षुषः |ळू का वात्याह-तत्पुनश्चक्षुर्जानाति जघन्यतो रूपं अङ्गुलसङ्ख्येयमागे स्थितं, अतिसन्निकृष्टस्य चक्षुषा अनुपलम्मादसङ्ख्येयभागस्थितं अत्यासन चक्षुर्न पश्यत्येवेति गाथार्थः ॥ २६८॥
नन्विन्द्रियार्थगृद्धिविपाक एव वाच्यः, तस्यैव वैराग्यजनकत्वात, किमिन्द्रियमेदादिकथनेन ? इत्या:इय नायतस्सरूवो, इंदियतुरए सएसु विसएसु । अणवरयं धावमाणे, निगिण्हइ नाणरज्जूहि ॥ २६९ ॥ व्याख्या-इत्युक्तप्रकारेण ज्ञातेन्द्रियभेदादिस्वरूप एव पुरुष इन्द्रियतुरगान स्वेषु स्वेषु विषयेषु अनवरतं धावमानान् प्रवृत्तिमाजो
॥१७५॥ ज्ञानवल्माभिः सुखेनैव निगृह्णाति, नाज्ञातं निगृहीतुं शक्यते, इति इन्द्रियभेदादयोऽपि कथनीया एवेति गाथार्थः ॥ २६९ ।।