SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१६६॥ किम्बहुना सर्व प्रवचनतात्पर्यमेवाह पडिसेहो य अणुन्ना, एगंतेण न वन्निया समए । एसा जिणाण आणा, कज्जे सच्चेण होयव्वं ॥ २४३ ॥ व्याख्या - एकान्तेन समये - सिद्धान्ते प्रतिषेधोऽनुज्ञा च न वर्णिता, किन्त्वेवैव सर्वजिनानामाज्ञा - यत्कार्ये औषधादिविषये सत्येन - मायारहितेन भाव्यम् । एषणादिशुद्धे तस्मिन्प्राप्यमाणे शठतयाऽनेषणीयादिदुष्टं तन्न ग्राह्यमित्यर्थः इति गाथार्थः ॥ २४३ ॥ तथादोसा जेण निरुम्भंति, जेण खिजंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥ २४४॥ व्याख्या - येनकेनापि च प्रकारेण दोषा रागादयो निरुन्ध्यन्ते येन च पूर्वार्जितानि कर्माणि क्षायन्ते स स मोक्षोपाय एव, यथा हि रोगावस्थायां तदेव शमनं औषधं रोगमोक्षोपायो, येन पूर्वसञ्चिताजीर्णादयः क्षीयन्ते, वातादयस्तु निरुन्ध्यन्ते इति गाथार्थः ॥ २४४ ॥ अपरश्च बहुवित्थर मुस्सगं - बहुयरमववायवित्थरं नाउं । जेण न संजमहाणी, तह जयसू निज्जरा जह य ॥ २४५ ॥ व्याख्या - बहुविस्तरं उत्सर्ग बहुतरविस्तरमपवादं च ज्ञात्वा येनोत्सर्गेणापवादेन वा सेवितेन संयमयोगानां हानिर्न भवति, यथा च कर्मनिर्जरा स्यात्तथा यतस्वति गाथार्थः ॥ २४५ ॥ उक्तो बहुधोत्सर्गापवादविधिः, अथैतयोः स्वरूपमाहसामनेस्सग्गो, विसेसओ जो स होइ अववाओ । ताणं पुण वावारे, एस विही वण्णिओ सुत्ते ॥ २४६ ॥ व्याख्या - सामान्येनैव यो विधिरुच्यते स उत्सर्गः, यथा - "गोयरग्गपविट्ठो य, न निसीएज कत्थई । [ कई चन पबंधेजा, चिट्टित्ता णवसजए || १ | " ] इत्यादि [ दश० अ० ५ उ० २ गा०८] विशेषतो विशेषप्रोक्तो यो विधि ः सोऽपवादः, ४ भावनावि कारे एकान्तनिषेधानुज्ञयो रननुज्ञापना त्मकत्वं जिनशासनस्य । ॥ १६६ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy