________________
पुष्पमाला लघुवृत्तिः
॥१६५॥
मादिशति, एवं जिना अपि तथाविधसंहनन विकलं अध्ययनादिप्रवृत्तं साधुद्रव्यमाश्रित्य विकृष्टतपः कर्मादिकं निषेधयन्ति, स्निग्धाहारादिकं स्वनुजानन्ति, अन्यं तु दृढसंहननं विज्ञाय तस्मिमेव कर्मरोगे चिकित्सनीये व्यत्ययमेवादिशन्ति, एकस्यैव वा जीवद्रव्यस्य देशकालादिभेदेन कृत्य भेदमादिशन्तीति गाथार्थः ॥ २४० ॥ एवं च सति मुज्यमानाहारादिकोऽर्थः कस्यचिन्न बन्धादिकारणं, किन्तु स्वपरिणाम एवेत्याहअणुमित्तोवि न कस्सइ, बंधो परवत्थुपच्चयो भणिओ। तह वि य जयंति जइणो, परिणामविसोहिमिच्छंता ॥२४१ ॥ व्याख्या—परवस्तुप्रत्ययाद्वाह्यार्थकारणादणुमात्रोऽपि स्वल्पोऽपि न कस्यचिद्वन्धो मोक्षो वा मणितः, किन्तु स्वपरिणामवशादेवेति भावः । यद्येवं तर्हि शुद्धमनसो बाह्यासु प्राणातिपातादिचेष्टासु यथेष्टं वर्त्तामहे इत्याशङ्क्याह- तथापि यतन्ते - प्रयत्नं कुर्वन्ति मुनयः, प्राणातिपातवर्जनादिष्विति शेषः, किं कुर्वन्तः १ इत्याह- परिणामस्यैव विशुद्धिमिच्छन्तोऽन्यथा च तच्छुद्धेरयोगादिति गाथार्थः ॥ २४१ ॥
ननु प्राणातिपातादिकं कुर्वन्तः परिणामं शुद्धमेव करिष्यामः ? इत्यत्राह -
जो पुण हिंसाययणे-सु वट्टई तस्स नणु परिणामो । दुट्ठो न यतं लिंग, होइ विसुद्धस्स जोगस्स ॥ २४२ ॥ व्याख्या - यः पुना रागादिदूषितचित्तः घटतया हिंसायतनेषु हिंसास्थानेषु उपलक्षणत्वान्मृषावादादिपदेषु चानेकशः प्रवर्त्तते, नन्त्रित्यक्षमायां इन्त तस्य परिणामो दृष्ट एव, न च वाङ्मात्रेणैव परिणामशुद्धता ज्ञायते, किन्तु क्रियाद्वारेण न च वाच्यं कालकार्यस्येवास्माकमपि हिंसादिप्रवृत्तिरपि शुद्धपरिणामस्य लिङ्गं भविष्यति इत्याह-न च तद्धिसास्थानादिवर्त्तनं विशुद्धस्य योगस्य मनःपरिणामरूपस्य लिङ्गं-चिह्नं मत्रति, यो हि सम्धगज्ञानवान् रामाद्यदूषितमना सर्वदा जीवरक्षादिपरिणतोऽनन्योपायसाध्ये महाकार्ये समुत्पन्ने कदाचिदेव दिसादों प्रवर्त्तते, तस्य युद्धपरिणाम चिन्हमपि तद्भवति, यस्तु रागादिदोषदुष्ट एव तेषु प्रवर्त्तते तस्य सङ्क्लिष्टपरिणाम चिन्हमेवेति गाथार्थः ॥ २४२ ॥
४ भावनाधि
कारे स्वपरिणाप्रस्येव कारणत्वं बन्धमोक्षयोः ॥
॥१६५॥