________________
पुष्पमाला
लघुवृत्तिः ॥१६४॥
गणनया एक द्वित्र्यादिरूपतयाऽतीता-अतिक्रान्ता लोका भवन्ति पूर्णाः, नैकेनाप्याकाशप्रदेशेनहनाः, परस्परं तुल्या - अन्यूनाधिकसङ्ख्याः । ननु त्रैलोक्यान्तर्वर्त्तिजीवादिपदार्थानामनन्तत्वेनानन्ता एव भवमोक्षयोर्हेतवो भवन्त्यतस्ते कथं असङ्ख्येया इत्युक्तं ! सत्यं, यद्यपि जीवादयो भावा अनन्तास्तथापि तैः सर्वैरपि विसदृशान्यसङ्ख्येयान्येवाध्यवसायस्थानानि जन्यन्ते, नानन्तानि, | तेभ्यः परतो ऽन्याध्यवसायानां पूर्वाध्यवसायेष्वेवान्तर्भावात्, अतस्तज्जन्याध्यवसायस्थानानामसब्येयत्वेनार्था अप्युपचारादसंख्येयत्वेनोक्ता इत्यदोषः, अतः स्थितमेकाऽपि जीत्रोपमर्दादिका विराधना परिणामवैचित्र्येण कर्मबन्धहेतुस्तन्निर्ज्जरा हेतुश्च जायत इति गाथार्थः ॥ अथ जीवादयोऽर्थाः येषां बन्धहेतवो येषां च मोक्षहेतवो भवन्ति, तदाह-
इरियावहियाईया, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ, जयाण निव्वाणगमणाय ॥२३९॥ व्याख्या - ईरणं ईर्ष्या - गमनं, तदुपलक्षितः पन्था ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं गमनागमनं च तदादियैषां भोजनशयनादीनां ते ऐर्यापथिकादयो भावा य एवायतानां असंयतानां कर्मबन्धाय जायन्ते, त एव च यतानां - संयमोद्योगपराणां पुनर्निर्वाणगमनाय भवन्तीति गाथार्थः ॥ २३९ ॥
एगंतेण निसेहो, जोगेसु न देसिओ विही वावि । दलियं पप्प निसेहो, होज विही वावि जह रोगं ॥ २४०॥ व्याख्या - योगेषु - गमनागमनभोजनादिषु तीर्थकरेरेकान्तेन निषेधो विधिर्वा न दर्शितः, किन्तु दलिकं- जीवद्रव्यं 'प्राप्य ' समाश्रित्य निषेध विधिर्वा भवेत् । दृष्टान्तमाह-यथा रोगे । इदमुक्तं भवति-य कथिद्वैद्योथा ज्वरादावृत्पन्न कश्चित्पवनपीडित | परिभाव्य तस्मिन् लङ्घनादिकं निषेधयति, स्निग्धोपचारादिकं त्वनुजानति, अन्यं तु तस्मिन्नेव ज्वरेऽजीर्णपूर्ण परिभाव्य व्यत्यय
४ भावनाऽधि
कारे समत्वं भवमोक्षयोहेतूनाम् ।
॥ १६४ ॥