________________
VEGCOC
पुष्पमाला रुघुवृत्तिः ॥१६॥
४ भावना धिकारे निदोषत्वमशष्ठकृतायाः सालम्बनसेवाया:
___ व्याख्या-आलम्ब्यते-पतद्भिराश्रियते इत्यालम्बनं, तच्च द्रव्यभावभेदाद्विधा, ततश्च सहालम्बनेन वर्तते इति सालम्बनः, असौ पतन्नात्मानं दुर्गमेऽपि गर्तादौ दृढवल्ल्यादिपुष्टालम्बेनावष्टम्भतो धारयति, इत्येवमेव सहालम्बनेन वर्तन्त इति सालम्बना जिनोक्ततीर्थाव्यवच्छित्यादिपुष्टालम्बना, न स्वमतिमात्रकल्पिता अपुष्टालम्बनेत्यर्थः, सा चासौ सेवा, निषिद्धाचरणरूपा च सालम्बनसेवा कभृता संसारगर्तायां पतन्तं यतिमशठभावं-मातृस्थानरहितं धारयति, एष आलम्बनान्वेषणे गुण इति गाथार्थः ।।२३४॥
यद्येवं ततः किम् ? इत्याह|| उस्सग्गेण निसिद्धं, अववायपयं निसेवए असढो। अप्पेण बहुं इच्छइ, विशुद्धमालंबणो समणो ॥२३५॥
व्याख्या-उत्सर्गेण-सामान्यविधिरूपेण यनिषिद्धमागमे, तदप्यपवादस्यानेषणीयपरिभोगादिरूपस्य पदे रोगप्राप्त्यादिरूपे P स्थाने प्राप्तः सेवते अशठो-ऽमायावी, कुतः ? इत्याह-यतोऽल्पेन संयमव्ययेन बहु संयमलाभमिच्छत्यसौ श्रमणः । कथम्भूतः सन् ? | इत्याह-विशुद्ध-मयारहितं आलम्बनं यस्यासौ विशुद्धालम्बनः, मकारोऽलाक्षणिक इति गाथार्थः ॥ २३५ ॥
ननु प्रतिषिद्धं कुर्वन्नप्यसौ कथं न दोषभाग् ? इत्याह| पडिसिद्धं पि कुणंतो, आणाए दवखित्तकालन्नु। सुज्झइ विसुद्धभावो, कालयसूरिव्व जंभणिय।।२३६॥
व्याख्या-कालकमरिवद्र्व्यादिस्वरूपज्ञो जिनाज्ञया-"साहूण चैइयाण य, पडिणीय तह अवण्णवायं च। जिण-| पवयणस्स अहियं, सव्वत्थामेण वारेइ ॥१॥" तथा-"संघाइयाण कज्जे, चुण्णिज्जा चकवटिमवि" इत्यादिकया सामान्यतः प्रतिषिद्धमपि जन्तुघातादिकं कुर्वन् आज्ञापरतन्त्रप्रवृत्तेविशुद्धभावः शुद्धत्येव-कर्म निर्जरयत्येव, अत्रच कालकाचार्यकथा
%20-
॥१६२ ॥
%2-13