________________
पुष्पमाला लघुवृत्ति: ॥१६॥
४भावना धिकारे ग्राह्यत्वंसालम्बनसेवायाः
-OCHECCA%AROOPROCE%ERS
ननारम्भ क्रियमाणेऽधिकतरं तेषां तृष्णाश्रमादयो जायन्ते, खनिते च तस्मिन् विपुलं शीतलं जलमासाद्य तेषामन्येषां च तृष्णाद्यपगमः सम्पद्यते. एवं द्रव्यस्तवे यद्यप्यसंयमो भवेत्तथापि कारितान् जिनगृहादीन् दृष्ट्वा तेषामन्येषां च स कोऽपि विशुद्धपरिणामो भवेदोभरिभवार्जितानि द्रव्यस्तवकृतानि च पापानि स्फेटयित्वा निवृति जनयति, तस्मानित्यमारम्भप्रवृत्तानां श्रावकाणां बहलाभदेतत्वाददव्यस्तवो यक्तो.न पूनस्त्यक्तारम्भाणां भावस्तवलाभवतां मुनीनां निषिद्धत्वात,निजमतिविकल्पितं पुनस्सव भवहेतरेवेत्यलम। किं पुनस्तदालम्बनं ज्ञानादिवृद्धिहेतुः? इत्याह
काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण य उजमिस्सं।
गच्छंच नीईए (नीई अइ?)सारइस्सं, सालंबसेवी समुवेइ मोक्खं ॥२३३॥ व्याख्या-मां विना तीर्थोच्छेदापत्तेस्तस्याव्यवच्छित्तिं करिष्यामि. अथवा ज्ञानादिसाधकान् ग्रन्थानध्येष्ये, यदिवा तीव्रतपोविधानेन पुरस्ताद्यमं करिष्यामि, अथवा मां विना गच्छेऽसमञ्जसापत्तेस्तं सिद्धान्तोक्तनीत्या सारयिष्यामि-सन्मार्गे प्रवर्तयिष्ये, एवमाद्यालम्बनेन सह वर्तत इति सालम्बः-पुष्टालम्बनवान् , एवम्भृतस्सन् रोगाद्यापदं प्राप्तो यः साधुर्गीतार्थोऽनन्यतदपगमोपायः किमप्यनेषणीयमौपधादिकं सेवत इति सालम्बसेवी । सच जिनाज्ञाऽनुल्लङ्घनान्मोक्षं समुपैति-गच्छति, तस्मात्तीर्थाव्यवच्छेदादिकमेव यथोक्तं ज्ञानादिवृद्धिजनकमालम्बनं, नान्यदिति गाथार्थः ॥ २३३ ॥
ननु कुतो रोगाद्यापदपगमेऽपि ज्ञानादिवृद्धिजनकमालम्बनमन्वेषणीयं ? इत्याह| सालंबणो पडतो, अप्पाणं दुग्गमे वि पारेइ । इय सालंबणसेवा, धारेइ जइं असढभावं ॥ २३४ ॥
॥१६॥