________________
पुष्पमाला रुघुवृत्तिः ॥१६०॥
G
.. व्याख्या--द्रव्यशब्दोच गुणवचनः कारणपर्यायो वा, ततश्च द्रव्यरूपो गौणतामापनो भावस्तवकारणभूतो वा स्तव- ५४ भावना चैत्यविधापनपूजाकरणादिना गुणवदभ्यर्चनं द्रव्यस्तवः। भावतः-परमार्थतः स्तवः-सद्गुणोत्कीर्तनान्तरङ्गप्रीत्याऽऽज्ञापालनादिना दाधिकारेकपूज्यपूजनं भावस्तवः।च शब्दौ द्रव्यभावस्तवयोः स्वस्वाधिकारिविधेयत्वे नैयत्यख्यापनपरौ। अनयोश्चान्योन्यापेक्षया द्रव्यस्तवो भरणीयत्वं द्रव्य बहुगुणः, स्वपरयोः शुभाध्यवसायस्यैव हेतुत्वातीर्थोन्नतिनिमित्तत्वाचेति कस्यचिद्बुद्धिः स्यात्तदयुक्तं, यतोऽनिपुणमतिवचनमिदं स्तवस्य सर्वद्रव्यस्तवबहुगुणत्वरूपं । कुतः इत्याह-यतः पण्णां जीवानां पृथिव्यादीनां यत्किमपि हितं तदेव जिना ब्रुवते, प्रधान मुक्तिकारण- संयमिनः । मिति गम्यते, किं पुनस्तद्धितम् ? इत्याह-पड्जीवनिकायविषयः-"पुढविदगअगणिमारुय-वणस्सइबितिचउपणिदिअजीवे । | पेहुप्पेहपमजण-परिठवणमणोवईकाए ॥१॥” इत्येवलक्षणः संयमोऽयमेव हितस्तर्हि द्रव्यस्तवेऽप्येष भविष्यति ? इत्याह| द्रव्यस्तवे क्रियमाणे स संयमः पुष्पसङ्घट्टनाद्यारम्भतः कृत्स्नः-परिपूर्णो विरुद्धयते, ततः कृत्स्नसंयमप्रधाना विद्वांसः साधवः पुष्पाद्यारम्भसाध्यं द्रव्यस्तवं नेच्छन्तीति गाथाद्वयार्थः ॥ २२९-३०॥
यद्येवं तर्हि न केनाप्यसौ द्रव्यस्तवो विधेय इत्याशङ्क्याह| अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थए कूवादटुंतो ॥२३१॥
व्याख्या-अकृत्स्नमसम्पूर्ण संयम देशविरतिरूपं प्रतयन्तीत्यकृत्स्नप्रवर्तकाः श्रावकास्तेषां विरताविरतानां, खलु | एवार्थे, तत एव द्रव्यस्तवो युक्त एव, कुतः ? इत्याह-यतोऽयं संसारप्रतानवहेतुः। ननु प्रकृत्यैव य आरम्भरूपः स श्रावकाणामपि कथं युक्त इत्याशझ्याह-तस्मिंश्च द्रव्यस्तवे कर्तव्ये कूपदृष्टान्तोऽर्हद्भिरुक्तः, यथा हि तृष्णातापादिबाधितैस्तदपगमनिमित्तं कूपख
HARSHA