________________
5
पुष्पमाला लघुचि: ॥१५९॥
-
४ भावनाsधिकारे, भावस्तवस्य गरी
स्त्वम्।
-04-02-
चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य। सव्वेसु वि तेण कयं, तवसंजमउजमंतेण ॥२२७॥
व्याख्या-चैत्ये जिनप्रतिमायतनरूपे, कुले विद्याधरादौ, गणे तत्समुदायरूपे, सङ्घ साध्वादौ, आचार्याणां च प्रतीतानां, प्रवचने सूत्रार्थरूपे द्वादशाङ्गे, श्रुते च केवलमूत्ररूपे, एतेषु सर्वेष्वपि यत्किमपि चैत्यनिर्वर्त्तनपूजनादिक कृत्यं तत्तेन साधना कृतमेव ज्ञेयं । किं कुर्वता ? इत्याह-तपस्संयमयोर्विषये उद्यम कुर्वता, चैत्यनिवर्तनादिकैहि कुशलानुबन्धक्रमेण संयमः प्राप्यते, ततो मोक्षः । येन च सोऽपि मुक्तिनिवन्धनः संयमः प्राप्तस्तेन चैत्यनिवर्त्तनादिकं कृतमेव, तत्फलत्वात्संयमस्येति भावः । किञ्च संयमवानपादेयवाक्यो देशनादिद्वारेण शोभनचैत्यनिर्वर्तनादि करोत्यतः संयम एव यत्नो विधेयो, नान्यत्रेति गाथार्थः ॥ २२७ ॥ । अथ चैत्यविधापनासंयमपालनस्य बहुगुणत्वमाह
सव्वरयणमएहि, विभूसियं जिणहरेहिं महिवलयं । जो कारिज समग्गं, तओ वि चरणं महिडियं ॥२२॥ - व्याख्या--यः सकलमपि महीतलं सर्वरत्नमयैर्जिनगृहैविभूषितं कारयेत् , तस्मादपि, आस्तामेकचैत्यमात्रकत्यातच महद्धिक, संयमपालनं बहुगुणमित्यर्थः, यतः सर्वोत्कृष्टगुणादपि श्रावकादनन्तगुणविशुद्धश्चारित्री भण्यते, अत एव कारितानेकचैत्यादयोऽपि चक्रिशकादयस्ताहनदीक्षितद्रमकमपि चारित्रिणं प्रणमन्तीति गाथार्थः ॥ २२८ ॥
आगमोक्तेनैव प्रकारेण द्रव्यस्तवाद्भावस्तवो गरीयानित्याहदव्वत्थओ यं भाव-स्थओ य बहुगुणोति बुद्धि सिया। अनिउणवयणमिणं, छजीवहियं जिणा विति॥२२९॥ छज्जीवकायसंजमो, दव्वत्थए सो विरुज्झए कसिणो। ता कसिणसंजमविऊ, पुप्फाईणं न इच्छति ॥२३०॥
RRRRRARASHARE
॥१५९॥
%