SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ RAA पुष्पमाला लघुवृत्तिः ४ भावनाs|धिकारे व्यवहारबलवत्त्वम्। ॥१५८॥ | :9CCUSTOC4%A%A9-%A4%250% व्याख्या-यदि जिनमतं प्रपद्यध्वं, तदा मा व्यवहारनिश्चयौ मुञ्चथ, यतो व्यवहारनयोच्छेदे तदभिमतानि लिङ्गग्रहणजिनार्चाचैत्यनिर्वर्तनवन्दनपूजनादीनि सर्वाण्यकर्तव्यानि स्युः, ततस्तीर्थोच्छेदः प्रतीत एवेति गाथार्थः ॥ २२४ ॥ स्यादेतत् , तथापि निश्चय एव बलवान् , नेतर इत्याशक्याहववहारो वि हु बलवं, जं वंदइ केवली वि छउमत्थं । आहाकम्मं भुंजइ, सुयववहारं पमाणतो॥२२५॥ व्याख्या-न केवलं निश्चयोऽपितु व्यवहारोऽपि स्वविषये बलवानेव, यद्यस्मात्कारणादुत्पन्चकेवलज्ञानोऽपि शिष्यो व्यवहार प्रमाणयन् छद्मस्थं गुरुं वन्दते, आसनदानाभ्युत्थानादिकं च विनयं पूर्ववदेव करोति यावदद्यापि न ज्ञायते, ज्ञाते पुनगुरुरपि निवारयत्येव । तथा च मुग्धेन केनचिद् गृहिणा कृतमाधाकर्म, तच्च श्रतोपयुक्तेनाशठेन छद्मस्थसाधुना [शुद्धं ] विज्ञाय तं गृहीत्वा केवलिनिमित्तमानीतं, यथास्थितं च तज्जानतः केवलिनो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीकुर्वनसौ तद्भुक्त एव, अन्यथा श्रुतमप्रमाणं कृतं स्यात्तच्च न कर्त्तव्यं प्रायः सर्वव्यवहारस्य श्रुतेनैव प्रवर्त्तमानत्वात् । ततो व्यवहारो बलवा. नेव, केवलिनाऽपि समर्थितत्वात् । ततः स्थितमिदं-निश्चयव्यवहारशुद्ध संयम एव मनो निश्चलं विधेयं , नतु कुतश्चिद् गृहवासाद्यभिलापः कार्य इति गाथार्थः ॥ २२५ ।। अथ तीथकरोद्देशेनापि यतिवेषेण संयमशिथिलीकरणे दोषमाहतित्थयरुहेसेण वि, सिढिलिज न संजमं सुगइमूलं तित्थयरेण वि जम्हा, समयाम्मि इमं विणिद्दिदं ॥२२६॥ . व्याख्या-तीर्थकरोद्देशेनापि पूजाद्यारम्भप्रवृत्या सुगतेः परमं निवन्धनं संयम साधुन शिथिलीकुर्यात् । यस्मात्कारणात्त्वं | यदर्थे पुष्पसङ्घट्टाघारम्भं चिकीर्षसि, तेनापि तीर्थकरेण सिद्धान्ते इदं वक्ष्यमाणं निर्दिष्टमिति गाथार्थः ।। २२६ ।। तदेवाह %E9 % नार ॥१५८॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy