SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१५६॥ -% यदि कालं करोति तदा क गच्छति १ इति । भगवानाह - सप्तमपृथिव्यां । ततचिन्तयति राजा-व तद्ध्यानं क्व [च] तन्नारकत्वं १, किं मया सम्यग्न श्रुतमेतदिति विलम्ब्य पुनः पप्रच्छ-भगवन्निदानीं कालगतः प्रसन्नचन्द्रः क्व व्रजति १, भगवान् भणति - सर्वार्थसिद्धौ । ततो विस्मितेन राज्ञाऽभाणि - नाथ ! कथं पूर्व नरकगमनमिदानीं यूयमेव सुरत्वमादिशथ ? । स्वाम्याह - दुर्मुखवचनाचिने प्रवृत्ते रौद्रध्यानेऽरिभिर्युद्धयमानस्य तवेहागमने पुनर्मनोविकल्पादेव सकले प्रहरणवर्गे परिनिष्ठिते स चिन्तयत्येवं - निजशिरस्त्राणेनैनं रिपुं हनि । ततस्तेन स्पृष्टं हस्तेन शिरो विलुप्तकेशं ज्ञात्वाऽऽत्मानं निन्दन् लब्धविवेकः शुद्धध्यानात् क्षपकश्रेणिशिरस्समारूढो जातः पुनरपि सर्वार्थसिद्धियोग्यः, इति यावद्वदति स्वामी तावत्प्रसन्नचन्द्रस्योत्पन्नं केवलज्ञानं, सुराचकुर्महिमां, तत्प्रकर्षं श्रुत्वा भणति भ्रूषुः किमेतत् ?, शुद्धि प्रकर्षात्प्रम चन्द्रर्षेः केवलज्ञानमुक्तं स्वामिना । ततः श्रेणिकश्चिन्तयति, सत्यमिदं वचः "वावाराणं गरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमीए, अहबा मोक्खम्मि सो चेव ॥ १ ॥ " इति प्रसन्नचन्द्रकथा समाप्ता ॥ एवमन्येऽपि दृष्टान्ता द्रष्टव्या, अथ मनस्तमाधौ यत्नो विधेय इत्येतदेवाह - अहरगइपट्टिय़ाणं, किलिट्ठचित्ताण नियडिबहुलाणं । सिरतुंडमुंडणेणं, न वेसमेत्तेण साहारो ॥ २२१ ॥ व्याख्या - अधर गर्ति - नरकं प्रति प्रस्थितानां क्लिष्टचित्तानां निकृतिर्माया बहुला येषां ते तथा तेषां शिरस्तुण्डमुण्डनेन वेषमात्रेण रजोहरणादिना न साधार - स्त्राणं । वेषमात्रं धारयतां जनानां मिथ्यात्वोत्पादहेतुत्वेन प्रत्युताधोगतिपात एव स्थान त्राणमिति भाव इति गाथार्थः ।। २२१ ।। किञ्च - ४ भावना धिकारे प्रसनचन्द्रनिदर्शनम् । ॥ १५६ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy