SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्ति: ॥१५१॥ 1564 ४ भावनाsधिकारसाधूनां स्नेहमयादिमी रहितत्वम्। "दसणनाणचरितं, तबविणयं जत्थ जत्तियं जाणे। जिणपन्नत्तं भत्तीए, पूयए तं तहिं भावं ॥१॥” इति [जीत. भा०१३३२], किमिह बहुना ?, “पडिसेहो य अणुण्णा" इत्यादिना सूत्रेणात्रैव प्रवचनसारमेव वक्ष्यते, तद्विस्तरार्थिना तु निशीथ [उ०५] कल्पा [उ०३] वन्वेषणीयौ, अतो गम्भीरं जिनवचनं पौर्वापर्येण परिभावनीयं, न तु क्वचिद्वचनमात्राकर्णनेनापि सम्मोहः कार्य इति गाथार्थः ॥२०७॥ अन्यदपि यत्साधूनां निषिद्धं तदाहपेजं भयं पओसो, पेसुन्नं मच्छरं रई हासो। अरई कलहो सोगो, जिणेहिं साहूण पडिकुट्टो ॥२०॥ __व्याख्या-प्रेमः स्वजनादिषु स्नेहः, भयं परीषहोपसर्गेभ्यः शङ्का, प्रद्वेषो-जीवाजीवादिषु क्रोधः, पैशून्यं-दुर्जनता, मत्सरः प्रतीतः, रतिः-सुष्ठु शब्दादिषु समाधिः, हासः-क्रीडा, अरतिः-कष्टरोगादावसमाधिः, कलहः, शोकः, जिनैः, साधूनां प्रतिक्रुष्टोनिषिद्ध इति गाथार्थः ।।२०८॥ तथावंदिज्जंतो हरिस, निदिज्जंतो करेज न विसायं। न हि नमियानंदियाणं,सुगइं कुगइंच बिति जिणा॥२०९॥ व्याख्या-साधनाढ्यादिमिर्वन्धमानो हर्ष, गोपालादिमिश्च निन्द्यमानो न विषादं कुर्यात् । कुतः? इत्याह-न हि यस्माल्लोकैतानां साधूनां सुगतिं निन्दितानां कुगति वा ब्रुवते जिनाः, किन्त्वात्मगतगुणदोषैरेव तत्प्राप्तिरिति गाथार्थः ॥२०९॥ . आत्मन एव सुगतिदुर्गतिसाधकत्वं दर्शयति| अप्पा सुगई साहइ, सुपउत्तो दुग्गइं दुपउत्तो। तुट्ठो रुट्ठो य परो, न साहओ सुगइकुगईणं ॥ २१०॥ व्याख्या-आत्मैव सुप्रयुक्तः-शोभनज्ञानादिमार्गव्यापृतः सुगतिं साधयति, स एवात्मा दुष्प्रयुक्तः-प्राणिवधायुन्मार्ग 9ARASHREE
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy