________________
पुष्पमाला लघुवृत्तिः ॥ १५० ॥
सोऽङ्सक्लिष्टः । * छन्दो-ऽभिप्रायः, स चार्थाद्यथाछन्दस्येव ततो जिनवचनवहिर्भूतं स्वाभिप्रायस्यैवानुरूपं प्ररूपयति करोति वा इति यथाछन्दः, उत्सूत्रमाचरन् प्ररूपयंश्च परतप्तिप्रवृत्तः स्वल्पेऽप्यपराधे पुनः पुनर्झपनःशीलो मिथ्यालम्बनस्य किश्चिद्बुद्धयादिविकल्पसुखाभिलाषी विकृतिप्रतिबद्धो गौरवत्रयगर्वितश्च यथाछन्द इत्यर्थः । एतेऽनन्तरोक्ताः षडपि सुखशीलजनस्वरूपाः, एतैश्व षडूभिरपि यञ्जिनाज्ञामतिक्रम्य समाचीर्णं तन्न स्वयमाचरेन्नापि शंसे-च्छोभनमिदमिति न प्रशंसेदित्यर्थः । एतेषां च पार्श्वस्थादीनामपुष्टालम्बनेनाग्रपिण्डभोजित्वा दिनोत्तरगुणबिराधकानां पञ्चाश्रवप्रवृत्त्यादिना मूलगुणविराधकानां च कृतिकर्मादिकमपि निषिद्धं, विशुद्वालम्बनाः पुनरात्यन्तिके कारणे कटकसम्मर्दमपि कुर्वन्तोऽल्पेन बह्निच्छन्तः संयमश्रेण्य मेव वर्त्तन्त इति वन्दनीया, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोपप्रसङ्गात् । नन्वस्य लन्दनेऽपि संयमव्ययाद्दोषाः प्रसञ्जन्ति ?, सत्यं, किन्तु संयमव्ययात्तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यं --
"कुणइ वयं घणहेडं, घणस्स घणिणो य आगमं नाउं । इय संजमस्स वि वओ, तस्सेवऽट्ठा न दोसाय ॥ १ ॥ " 'गच्छस्स रक्खणड्डा, अणागधं आउवायकुसलेणं । एवं गणाहिवइणो, सुहसीलगवेसणं कुजा ॥ २ ॥ " तद्यथा - " वायाए नमोकारो" इत्यादि, किम्बहुना ?
46
66
"वायाए कम्मुणा वा, तह चिट्ठए जह न होइ से मन्नुं । परसइ जओ अवायं तं भावं दूरओ वजे ॥ १ ॥ " इति गुणवर्जितविषयं च नमस्कारादिकृत्यमुक्तं यत्र गुणः स्वल्पोऽस्ति तत्र किं कर्त्तव्यम् ?, अत्रापि भाष्यं
* "ऋतुबद्धकाले मासकल्पं वर्षा पुनः कार्तिकचातुर्मासिकमतिक्रम्य दुष्टालम्बनमन्तरेणापि सुखप्रतिलिप्युतया एकत्रापि क्षेत्रे [य]तिष्ठति स नित्यवासी "ति बृहद्वत्तौ
४ भावनाsधिकारे पार्श्वस्थादेरवन्दनीयत्वं संसर्गत्याज्यत्वं च ।
।। १५० ।।