________________
पुष्पमाला लघुवृति : ॥१४९॥
पासत्थी ओसन्नो, कुसील संसत्तनी अहाछंदो। एएहिं समाइन्नं, न आयरेज्जा न संसेज्जा ॥ २०७ ॥ व्याख्या- सम्यग्ज्ञानदर्शनचारित्रेभ्यः पार्श्वे - पृथक् तिष्ठतीति पार्श्वस्थः, स द्विविधः - सर्वतो देशतश्व, तत्र ज्ञानादिभ्यः पृथग्भूतः सर्वतः, निष्कारणमेव शय्यातराभ्याहृतराजनित्याग्रपिण्ड भोजित्वादिदोषदुष्टस्तुः देशतः, सातिचारचारित्रसद्भावात् । अबसीदति -प्रमाद्यति साधुसामाचार्यामित्यवसन्नः सोऽपि द्विधा - सर्वतो देशतश्च, अत्रावबद्ध पीठफलकः स्थापनाभोजी च सर्वतोऽवसमः, तत्रैककाष्टनिष्पन्नसंस्तारकालाभे बहुभिर्वंशादिकाष्ठखण्डैर्देवरकादिबन्धान् दत्वा वर्षासु संस्तारकः क्रियते, तं च यः पक्षसन्ध्यादिषु बन्धापगमं कृत्वा न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा नित्यमास्तीर्णसंस्तारक एकान्तानास्तीर्णसंस्तारक एव वा. य आस्ते स एव वा वाच्यः, यस्तु प्रतिक्रमणस्वाध्यायप्रत्युपेक्षणागमननिर्गमनस्थाननिषीदनादिकां साधुसामाचारीं प्रत्येकं न करोति, हीनाधिकादिदोषदुष्टां वा करोति, स्खलिते मिध्यादुष्कृतं न ददाति, प्रेरितश्च गुरोः सम्मुखीभूय त्रवीतीत्यादिदोषदुष्टो देशानसभः । कुत्सितं ज्ञानदर्शनचारित्ररूपं शीलं यस्य स कुशीलः, अयं च त्रिधा - ज्ञानदर्शनचारित्र कुशील भेदात् तत्र कालविनयादिकमष्टभा ज्ञानाचारं विराधयन् ज्ञान कुशीलः, निश्शङ्कितत्वादिकमष्टधा दर्शनाचारं विराधयन् दर्शनकुशीलः, ज्योतिष्कविद्यामन्त्रयोगचूर्णनिमितादिकं प्रयुञ्जानो जातिकुल शिल्पकर्मतपोगण सूत्राणि चाहारादिगृद्धया आजीवन् विभूषादिकं च चरणमालिन्यजनकं कुर्वाणश्चरणकुशीलः। मूलोत्तरगुणविषयैर्बहुभिर्गुणैद पैश्च संसज्यते - मिश्रीभवतीति संसक्तः, यथा - गो भुक्तमुच्छिष्टमनुच्छिष्टं च भक्तखलकर्षासादिकं सर्वं स्पृशति, एवं यो गुणान् दोषांश्चेत्यर्थः, अयं च द्विघा - सङ्क्लिष्टोऽसङ्क्लिष्टयः तत्र पञ्चाश्रवप्रवृत्तो गौरवत्रयप्रतिबद्धः श्रीप्रतिषेवी गृहकार्यचिन्तकश्च सक्लिष्टः, यस्तु बहुरूपः सम्पद्यते - संविग्नेषु मिलितः संविग्नतां भजते पार्श्वस्थादिषु च तपां
४ भावनाऽघिकारे पार्श्व
स्थादेरवन्दनीयत्वं संसर्गत्याज्यत्वं च ।
॥ १४९ ॥