________________
पुष्पमाला लघुवृत्तिः
।। १४८ ।।
२९५
टालम्बनेन नैकत्रावस्थितिः कार्येति गाथार्थः ॥ २०२ ॥
मासकल्पादिना विहरताऽप्येवम्भूतेनैव भाव्यं, अन्यथा स्वकार्यासिद्धेरित्याह-
गयणं व निरालंबो, हुज्ज धरामंडल व सव्वसहो । मेरुव्व निप्पकपो, गंभीरो नीरनाहुव्व ॥२०३॥ चंदुव्व सोमलेसो, सूरुव्व फुरंत उग्गतवतेओ । सीहुव्व असंखोभो, सुसीयलो चंदणवणुव्व ॥ २०४ ॥ पवणुव्व अप्पडिबद्धो, भारंडविहंगमुव्व अप्पमत्तो । मुद्धवहुव्वऽवियारो, सारयसलिलं व सुद्धमणों ॥२०५॥ व्याख्या - गगनमिव निराधार :- स्वजन कुलादि निश्रारहितो भवेत् । धरामण्डलमिव सर्वसहः । मेरुरिव निष्प्रकम्पः-परीपहपवनाक्षोभ्यः । नीरनाथ इव गम्भीरः - परैरलब्धमध्यः । चन्द्र इव सौम्यलेश्यः - प्रसन्नो, न तु रौद्रमूर्त्तिः । सूर्य इव स्फुरदुग्रतपस्तेजाः । सिंह इवासङ्क्षोभ्यो- वादिगजघटाऽभीतचित्तः । चन्दनवनमिव सुशीतलः - आप्यायकको मलवाक्प्रवृत्तः । पवन श्वाप्रतिबद्धो द्रव्यादिषु । भारण्डपक्षीवाप्रमादवान् । मुग्धवधूवदविकारः-शृङ्गारगर्भवक्रोक्त्यादिविकाररहितः । सागरसलिलमिव शुध्धमना इति गाथायार्थः ।। २०३ -४ -५ ॥ पुनः कथम्भूतो भवेत् ? इत्याह
| वज्जेज्ज मच्छरं पर-गुणेसु तह नियगुणेसु उक्करिसं । दूरेणं परिवज्जसु, सुहसीलजणस्स संसग्गिं ॥ २०६ ॥ व्याख्या - वर्जयेन्मत्सरं- प्रद्वेषं परगुणेषु, तथा निजगुणेषूत्कर्षं वर्जयेत्, तथा दूरेण परिवर्जय सुखशीलः - सुखलिप्सुर्जन:पाश्वस्थादिस्तस्य संसर्ग - सङ्गतिमिति गाथार्थः ॥ २०६ ॥ सुखशीलजनमेवाह
%%%%%
४ भावनाऽधिकारेसाधुनां नैकत्रावस्थितिः ।
॥ १४८ ॥