________________
सरल
इय निम्मलवयकलिओ, समिईगुत्तीसु उज्जुओ साहू। तो सुत्तअत्थपोरिसि-कमेण सुत्तं अहिज्झिजा।२०० पुष्पमाला व्याख्या-इत्युक्तप्रकारेण निर्मलबतकलितःसमितिगुप्तियुक्तः साधुः, ततस्तदुपकारार्थ सूत्रार्थपौरुषीक्रमेण सूत्रमधीयीतेति गाथार्थः
M भावनाऽधिलघुवृत्तिः
कारे समिति॥१४७॥ । सूत्रं च पठतः कथञ्चित्तदालम्बनेनातीव तीव्र तपोऽतप्यमानस्यैकत्रापि क्षेत्रे तिष्ठतस्तस्मिन्नधीते विशेषतः कृत्यमुपदिशमाह
गुप्त्योः प्रवृत्ति || तम्मि अहीए विहिणा, विसेसकयउज्जमो तवविहाणे। दव्वाइअपडिबद्धो, नाणादेसेसु विहरेजा ॥२०१॥ निवृत्तिरूपत्वम्
| व्याख्या-तस्मिन्-सूत्रे अधीते विधिना तपोविधाने विशेषेण कृतोद्यमः, द्रव्ये-श्रावकादौ, आदिशब्दात्क्षेत्रे-निर्वातवसत्यादौ, | काले-शरदादौ, भावे-शरीरोपचयादौ, अप्रतिवद्वो नानादेशेषु विहरेन्मासकल्पादिना, पुष्टालम्बनं विना सुखेच्छया नैकत्र तिष्ठेदित्यर्थः । अयम्भावः-द्रव्यादिप्रतिबद्धममुकं क्षेत्रं, इदं तु न, विहरतां रमणीयोऽयं शरत्कालादिः, सिग्धमधुराधाहारादिप्राप्त्या तत्र मे शरीरसुख भविष्यति, नात्र, अथ चैवं विहरन्तं मामेवोद्यतविहारिणं लोका भणिष्यन्त्यमुकं शिथिलमित्यादि, द्रव्यक्षेत्रकालभावप्रतिबन्धेन मासकल्पविहारोऽपि कार्यासाधक एव, ततो विहारोऽवस्थानं वा द्रव्याधप्रतिबद्धन विधेयमिति गाथार्थः॥२०१॥
नन्वेकत्र कुतो न स्थीयते ? इत्याह-- पडिबंधो लहुयत्तं, न जणुवयारो न देसविन्नाणं । नाणाईण अवुड्डी, दोसा आविहारपक्खम्मि ॥ २०२॥ व्याख्या-बहुकालमेकत्रावस्थाने प्रतिबन्धः श्रावकादिषु जायते, अनादेयवाक्यतादिनिबन्धनं लघुत्वं लोके भवेत् , न च नाना
॥१४७॥ देशीयजनस्य सम्यक्त्वप्राप्त्याद्युपकारोजायते, नापि देशसम्बन्धिभाषादीनां विज्ञानं भवति, तदज्ञाने च तत्रोत्पन्न शिष्यप्रतिबोधानुवृत्ती दुस्साध्ये, ज्ञानदर्शनचारित्राणां च प्रचुरबहुश्रुतादर्शनेन न शिष्याद्यप्राप्त्या वा वृद्धिरेव जायते, इत्याद्या अविहारपक्षे दोषाः, अतोऽपु