________________
पुष्पमाला लघुवृत्तिः
॥ १४५ ॥
नन्वशक्यानुष्ठानरूपया किमनयोपदिष्टया ? इति चेदाह -
सिद्धंतनीइकुसला, केइ निगिण्हंति तं महासत्ता । सन्नायगचोरग्गह- जाणगगुणदत्तसाहुव्व ॥ १९७॥ व्याख्या - सिद्धान्तनीतिकुशलाः केचिन्महासत्त्वास्तामपि वाग्व्याघ्रीं निगृण्हन्त्यतस्तदुपदेशो न निरर्थकः । क इव निगृहन्ति ? इत्याह- " सन्नायग" त्ति स्वजनास्तेषां चौरैर्ग्रहं जानाति यो गुणदत्तसाधुः, स इवेत्यक्षरार्थः ॥ १९७ ॥
कथानकं तूच्यते कश्चिद्गुणदत्तनामा बहुलर्द्धिस्वजनादींस्त्यक्त्वा प्रात्राजीत् । गीतार्थः प्रतिपन्नैकाकिविहारः स्वजनप्रतिबोधनार्थ व्रजन्नरण्ये चौरैर्गृहीतः, श्रमणं ज्ञात्वा 'अस्माकमत्र स्थितानां स्वरूपं कस्याप्यग्रे मा कथयेरित्युक्त्वा तैर्मुक्तस्य तस्याग्रतो गच्छतो मिलिता मातृपितृभ्रात्रादियुताः स्वजनस्वज्ञातीययज्ञयात्राः [' जानीया' इति लोके ], स्वजनैर्वन्दितो मुनिः तेन साधुवक्तव्याई प्रोक्तं, न चौरादिस्वरूपं, स्वजनैरागृह्य साधुः पश्चाद्वालितस्तैस्समं गच्छत्यन्तरा स्थितैश्चोरैर्लुण्टिता यज्ञयात्रा धृतास्तत्स्वजनाचालिताः पल्लीं प्रति । ततः साधुर्दृष्टचरैरुक्तं च स एवायं साधुर्यः आत्मभिर्बद्धो मुक्तश्च हन्यतेऽसौ, माऽऽत्मस्वरूपं वैरिणो गत्वा कथयेत्, तावदेतत्कथञ्चित्साधुजननी श्रुत्वा प्राह-भोः ! पल्लीश ! त्वत्क्षुरिकां समार्पय, येन निजौ स्तनौ छिच्चा त्यजामि, पल्लीशेन पृष्टं - वृद्धे ! कस्मादेवं करिष्यसि ?, तयोक्तं-यत आभ्यां स्तन्यं पायितोऽप्यसौ प्रत्यक्षं भवतो दृष्ट्वा नास्माकमकथयत् । चौरैः साधुः पृष्टो-भोः ! | कस्मान्न कथिता वयमत्र स्थिताः ? । साधुनोक्तं- साधूनां स्तोकाऽपि गृहिप्रसङ्गवार्त्ता जिनैर्निषिद्धा । ततः सर्वज्ञवचनमुल्लङ्घ्य स्वजनकार्यं कथं ( कथयामि ?) करोमि ? इत्यादि श्रुत्वा दृष्ट्राश्रौराः भद्रका जाताः सर्वममुञ्चन् । मुनिरपि तुष्टानां स्वज्ञातीयानां धर्ममुक्त्वा प्रतिबोध्य विहरतिस्म । एवमन्येनापि वाग्गुप्तिः कर्त्तव्या । इति [ वाग्गुप्तौ ] गुणदत्त साधुकथा समाप्ता ॥ अथ कायगुप्तिमाह
भावनाऽधिकारे वागुप्तौ गुणदत्तसाधुकथा |
॥ १४५ ॥