________________
पुष्पमाला लघुवृत्तिः ॥१४४॥
-32%ER
मानां प्रियां दृष्ट्वाऽचिन्तयत्-रे जीव ! संसारे भ्रमता त्वयाऽनन्ता भार्यास्त्यक्ताः, एनामपि तास्वेका जानीहि, मा पुनर्विषादं गच्छ, शास्त्रे पीदृशा नार्यः किं त्वया न श्रुताः ? "सुकृतेन न गृह्यन्ते, गुरुमपि मुश्चन्ति यान्ति नीचेऽपि । तत्तोषविषावकरा, न भवन्त्येता महामनसाम् ॥१॥” इत्यादि, ततोऽसौ निश्चलचित्तः पापेन प्राणैश्च सममेव परित्यक्तः प्राप्तो वैमानिकसुरेषु । पतिते च तद्देहे सम्भ्रान्तोत्थिता तद्भार्या । एतद्व्यतिकरं ज्ञात्वा पश्चात्तापपरां तां सुरः कृपया समागत्य प्रतिबोध्य जिनदीक्षोन्मुखां चकार । तस्माद्यदि गृहस्था अप्येवं मनोनिरोधं कुर्वते तर्हि साधुभिरसौ सुतरां कार्यः, इति जिनदासकथानकं समाप्तम् ।
अथ वाग्गुप्तिमाह-- अकुसलवयणनिरोहो, कुसलस्स उईरणं तहेगत्तं। भासाविसारपहि, वइगुत्ती वण्णिया एसा ॥१९५॥
व्याख्या--योकुशलस्य-सावद्यभाषणरूपस्य वचनस्य निरोधो-निवारणं, कुशलस्य तु-सूत्रार्थभणनादिरूपस्य वचसो यहुदीरणं, तथा तस्यैव वचसो यदेकत्व-निर्व्यापारतालक्षणं, एषा त्रिविधाऽपि भाषाविशारदैर्वाग्गुप्तिर्वर्णितेति गाथार्थः ।। १९५॥ । अशक्या चेयमपि गुरुकर्मभिः कर्तुमित्याह-- | दम्मति तुरगा वि हु, कुसलेहिं गया विसंजमिजति।वइवन्धि संजमिउं निउणाण वि दुक्करं मन्ने ॥१९६०/
व्याख्या--दम्यन्ते तुरङ्गा अपि, हु:-स्फुट, कुशलैः गजा अपि संयम्यन्ते, वागेव व्याघ्री वाग्व्याघ्री, तां पुनः संयमितुं निपुणानामपि दुष्करं मन्ये इति गाथार्थः ॥ १९६॥
४ भावनाऽघिकारे वागुप्तिनिरूपणम् । ॥१४॥
KRISH
+5जनन
॥१४४॥