SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ १४२ ।। धर्मरुचिव्यतिकरस्तावदुच्यते - क्वापि गच्छे धर्मरुचिर्मुनिर्दयापरः प्राणान्तेऽप्यविधिनोच्चारप्रसवणोत्सर्जनादि न करोति । अन्यदा तस्य सन्ध्यायां स्थण्डिलप्रतिलेखना विस्मृता, रात्रौ तस्य प्रस्त्रवणनिरोधे कृते दयानिमित्तं पीडां सहमानस्य 'रे जीव ! प्रमादपरः किं स्थण्डिलप्रतिलेखनां न करोषि ?, इदानीं किं ताम्यसि ? निजप्रमादतरुकुसुमलाभे' इति चिन्तयतः स्थिरचित्तस्य सवरञ्जितः कश्चित्सुरो हृष्टः प्रभातं चकार । साधुः स्थण्डिलं प्रतिलिख्य प्रस्रवणोत्सर्गमकरोत् तावता पुना रात्रिर्शगित्येव जाता । ततः साधुर्देवमायां ज्ञात्वा स्वं निन्दन् देवसान्निध्येऽप्यगर्वितः सुरप्रशंसितो विशेषत उत्सर्गसमितिरतः कर्मक्षयात्सिद्ध, इत्यन्योऽपि चरमसमितौ दृढत्वं कुर्यात् । [इति] धर्मरुचिकथानकं समाप्तम् । उक्ताः सोदाहरणाः पञ्च समितयः अथ गुप्तित्रये मनोगुप्तिं तावदाह- अकुसलमणोनिरोहो, कुसलस्स उईरणं तहेगत्तं । इय निट्ठियमणपसरा, मणगुत्तिं बिंति महरिसणो ॥१९१॥ व्याख्या - योऽकुशलस्य सावद्यचिन्तारूपस्य मनसो निरोधः, कुशलस्य-सूत्रार्थादिचिन्तारूपस्य मनसो यदुदीरणं, तथा | तस्यैव मनस एकत्वं - एकाग्रताव्यवस्थापनं, इत्युक्तरूपां त्रिविधामपि मनोगुप्ति ब्रुवते, सकलविकल्पातीतत्वान्निष्टितो विकल्परूपमनसः प्रसरः- प्रवृत्तिर्येषां ते निष्ठितमनःप्रसरा महर्षय - स्तीर्थकरा इति गाथार्थः ।। १९१|| कर्तुमशक्या चेयं गुरुकर्मणामित्याह - अवि जलहीवि निरुज्झइ, पवणोवि खलिज्जइ उवाएणं । मन्ने न निम्मिओच्चिय, कोवि उवाओ मणनिरोहे ॥ व्याख्या - अपिः सम्भावने, एतदपि सम्भाव्यते, यदुत - केनापि पर्वतादिशेषेण जलधिरपि निरुध्यते, पवनोऽप्यन्तरे ४ भावनाडधिकारे पञ्चम समितिशुद्धौ धर्मरुचि कथानकम् । ।। १४२ ।। ॥ १४२ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy