________________
पुष्पमाला लघुवृत्तिः
॥१४०॥
देहि, तत इतरो मुनिं प्रत्याह-गृहाग भो मुने ! यदि ते रोचते, अथ त्यजामि, ततः साधुना तृषार्त्तनापि द्रव्यक्षेत्रकालादिविलोकनेन देवसम्बन्धी ज्ञात्वा दोषभीतेन नाग्राहि, प्रकटीभूय देवतया प्रशंसितो विगतगर्वः शिवमगात् । एवमन्येनाप्यप्रमत्तेन एषणा कार्या, इति धर्मरुचिकथा समाप्ता । अथादान निक्षेपणविषयां समितिमाह
पडिलेहिऊण सम्मं, सम्मं च पमज्जिऊण वत्थूणि । गिव्हेज्ज निक्खिवेज्ज व, समिओ आयाणसमिइए ॥ व्याख्या - यः सम्यक्प्रत्युपेक्ष्य-दृष्ट्या सम्यग्निरीक्ष्य ततः सम्यक् प्रमृज्य च रजोहरणादिना वस्तूनि - पीठफलकादीनि | गृहीयानिक्षिपेद्वा स पदे समुदायोपचारादादाननिक्षेपणसमित्या समितो भवेत्, नान्य, इति गाथार्थः ॥ १८६ ॥
यदि तावदशक्यं कर्तुं न शक्यते ? तदा शक्यं तु कर्त्तव्यमेवेत्याह
जड़ घोरतवच्चरण, असक्कणिज्जं न कीरए इहि । किं सक्का वि न कीरइ ?, जयणा सुपमज्जणाइया ॥ १८७॥ व्याख्या - यदि तीव्रतपश्चरणं कर्तुमशक्यमत इदानीं न क्रियते, तर्हि किं शक्याऽपि सुप्रमार्जनादिका यतना न क्रियते ? क्रियत एवेति गाथार्थः ॥ १८७ ॥ ततः किमित्याह -
तम्हा उवउत्तेणं, पडिलेहपमासु जयव्वं । इह दोसेसु गुणेसु वि, आहरणं सोमिल जमुणी ॥ १८८ ॥ व्याख्या - तस्मादुपयुक्तेन प्रत्युपेक्षाप्रमार्जनयोर्यतितव्यं, इह दोषेषु गुणेष्वप्युदाहरणं सोमिलार्यमुनिरिति गाथार्थः ॥ १८८ || कः पुनः सोमिलार्यः ?, उच्यते - क्वापि गच्छे सोमिलो मुनिर्गुर्वादेशात्पात्राणि [सवेलं ] प्रतिलिख्योद्ग्राह्य किश्चित्कार्यं प्रति
४ भावनाऽधिकारे आदानादिसमिति वर्णनम्
॥ १४० ॥