________________
पुष्पमाला लघुवृति:
॥१३९॥
विहारं कुर्वन्नरण्ये व्रजति, तावद्धन शर्मक्षुल्लकस्तथा पिपासया पीडितो यथाऽक्षिणी भ्रमति मूर्च्छा समायाति, मुञ्चति विसंस्थलानि पदानि, परिशुष्यत्यमृतकला, ततो गच्छेन समं गन्तुमशक्तः स दूरे पृष्ठत आगच्छति । जनकोऽपि तत्प्रतिबन्धेन तदासन्नस्थो व्रजति, ततः क्वाप्यन्तरा शीतलजल कल्लोलसङ्कला महानदी मार्गे समायाता । ततो धनमित्रः पुत्रमोहमोहितो भणति - वत्स ! पिबेदं जलं, येन स्वस्थो गन्तुं शक्नोपि । ततोऽग्रे गत्वा नदीतीरे वृक्षान्तरितः स्थितः [पिता ], मा एष लञ्जातो न पिबतीति । धनशर्मा क्षुल्लकस्तु जिनागमोक्तवचनानि स्मरन्नशुद्धजलस्याग्रहणे परित्यक्तप्राणः शुभपरिणामो वैमानिकदेवेषूत्पन्नोऽवधिना पूर्वभवव्यतिकरं ज्ञात्वा - विष्ठितक्षुल्ल[क]शरीरो जनकस्य दर्शनं दत्वा मिलितो मुनिसमूहे, मा मम मरणं ज्ञात्वा मुनीनां खेदो भवेदिति । ततः सर्वान् मुनीन् क्षुत्पिपासापीडितान् ज्ञात्वा सकलेऽपि मार्गे स्थाने स्थाने गोकुलानि विकुर्वितानि । मुनयोऽप्यज्ञाततत्वास्तेषु तक्रादि गृह्णन्ति । अथ यावत्ते सुखेनारण्यं लङ्घयित्वा जनपदे प्राप्ताः ततः संहतेषु गोकुलेषु देवसानिध्यं ज्ञात्वा मुनिभिर्मिध्यादुष्कृते कृते देवो निजं रूपं कृत्वा जनकं विना साधून वन्दमानां पिपासापीडितक्षुल्ल[क] मरणवृत्तान्तं वदन् गुरुभिर्भणितो- यद्येवं किं न जनकं वन्दसे १, सुरः प्राह- अनेनानेषणीयोपदेशेन संसारे क्षिप्तोऽभृवं, यदि जलं गृहीतं भवेत्, अतोऽवगतपरमार्थः कार्ये एवोपदेशो दातव्य इति ज्ञापनार्थ न जनको वन्दित इत्युक्त्वा जनकं क्षामयित्वा गतो देवः । एवमापत्स्वप्यपरेणाप्यप्रासुकं न स्वीकर्त्तव्यमिति धनशर्मकथा समाप्ता । अथानेषणीयत्यागे धर्मरुचिकथेयं-कापि गच्छे तपश्शोषिताङ्गो धर्मरुचिर्मुनिः सोऽन्यदा ग्रीष्मेऽष्टमतपः पारण के काप्यरण्ये गच्छन् क्षुत्तृषाकान्तो वनदेवतया काञ्जिकाभृतालाबुकौ द्वौ पुरुषौ मार्गे गच्छन्तो वृक्षमूले स्थितौ दर्शितौ । तयोरेकः प्राह-भो ! एतत्पिब, स प्राह-न तृषितोऽहं इतरः प्राह तदिदं को वोटा ? त्यजामि, अपरेणोक्तं यद्यस्य मुनेः कार्ये किमप्यायाति तदाऽस्य
४ भावनाऽधिकारे एषणा
शुद्धौ धनशर्म धनरुचिदृष्टान्तो ।
॥ १३९ ॥