SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१३७॥ आहार उवहि सिजं, उग्गमउप्पायनेसणासुद्धं । गिण्हइ अदीणहियओ, जो होइ स एसणासमिओ ॥ १७९ ॥ व्याख्या - आहारं - अशनादिकं, उपधिं प्रच्छादनादिकं शय्यामुपाश्रयं, उद्गमशुद्धं - गृहस्थसमुत्थाधाकर्मादिषोडशदोषरहितं, उत्पादनाशुद्धं - आत्मसमुत्थैर्धात्रीकर्मादिषोडशदोषैः परिहृतं, एषणाशुद्धं - गृहस्थात्मोभयसम्भवैः शङ्कितप्रक्षितादिदशभिदाँ पर्विरहितं गृह्णाति, अदीनहृदयो - ऽलाभादिष्वपि वैक्लव्यमनवलम्बमानो यः स एव एपणासमितो भवति, नान्य, इति गाथार्थः ॥ १७९ ॥ आहारशुद्धिर्दुष्करेति चेदाह - आहारमेत्तकल्ले, सहसच्चिय जो विलंघइ जिणाणं । कह सेस गुणे धरिही ?, सुदुद्धरे सो जओ भणियं ॥ १८०॥ व्याख्या-- आहार एवाहारमात्रं, तस्यापि कार्ये यः सहसैव - वारत्रयमन्यत्र पर्यटनमकृत्वा पुष्टालम्बनं विनैव जिनाज्ञां - - एषणासमितिपालनरूपां विलङ्घयति अनेपणीयग्रहणेनातिक्रामति, स वराकः कथं शेषगुणान् ब्रह्मचर्यादीन् सुदुर्द्धरान् धरिष्यति ? न कथञ्चिदिति भावः, यतो भणितमागमे इति गाथार्थः ॥ १८० ॥ आगमोक्तमेवाहजिणसासणस्स मूलं, भिक्खायरिया जिणेहिं पण्णत्ता । एत्थ परितप्यमाणं, तं जाणसु मंदसद्धीयं ॥ १८१ ॥ व्याख्या- 'जिनशासनस्य' जिनोक्तमार्गस्य 'मूल' तत्वं, भिक्षार्थमुद्गमादिदोषत्यागेन चरणं भिक्षाचर्या, सैव जिनैः प्रज्ञप्ता|ssदिष्टा । अस्यां तु भिक्षाचर्यायां परितप्यमानं निर्वेदं गच्छन्तं तं साधु जानीहि धर्मविषये मन्द श्रद्धाकमिति गाथार्थः ॥ १८१ ॥ ननु जिनाजोलने किमनिष्टमापद्यते ? इत्याह ४ भावनाऽ | धिकारे एषणासमितिवर्णनम् । ॥ १३७ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy