SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१३६॥ भावनाऽधिकारे सङ्गतमुनिकथानकम् व्याख्या--न विरुध्यते लोकस्थितिः, बाध्यते येन नैव. परलोकः, तदेव वक्तव्यमिति शेषः। किम्बहुना ? तथा निपुणं || | वक्तव्यं यथा सङ्गतसाधुना भणितमिति गाथार्थः ॥ १७८ ॥ .. कः पुनरसो सङ्गतसाधुः?, उच्यते-कापि गच्छे विज्ञातसमयसारो गुणरत्नरोहणस्सङ्गतनामा मुनिः, स गुरुभिस्सम या विहरन् कापि नगरे प्राप्तः। तत्र गुरुभिनिमित्तात्परचक्रागमनं ज्ञात्वा गच्छोऽन्यत्र विहारितो। ग्लानाद्यर्थं सङ्गतं साधु मुक्त्वा |गुरवोऽपि विजहः, परचक्रेण नगरे रुद्ध सङ्गतः साधुः शुद्धभेषजाहारार्थ बहिनिस्सृतः सेनान्या दृष्टः पृष्टः-कुतस्त्वमागतोऽसीति, | तेनाप्यक्षुब्धचित्तेनोक्त-नगरात् , ततः सेनान्या नृपसैन्यपदातिलोकसुखदुःखादिस्वरूपं पृष्टोऽपि नाचीकथत् । कृतकोपेनापि पृष्टः प्राहसाधूनां नेदं वक्तुं युक्तं, यत उक्तम्--. - + (दश०८-२०). "बहुं सुणेइ कण्णेहिं, बहुं अच्छीहिं पेच्छइ । न य दिटुं सुयं सर्व, भिक्खू अक्खाउमरिहई ॥१॥x | "संगरहियाण जम्हा, सावजं जुज्जए न जपे। परतित्तीसु पवित्ती, सत्थे लोयम्मि य विरुद्धा ॥२॥" - ततः सेनानी प्राह-किंबहुना भणितेन ? यूयं हेरिकाः, मुनिः प्राह-न वयं हेरिकाः, किन्तु साधवो निस्सङ्गा लोकचिन्तारहिताः PIमीक्षार्थिन इत्यादि । एवमेकमपि लोकविरुद्धं वचनमभणतो हृष्टः सेनानी प्रणम्य भणति-सत्यं, सत्य एष एव धर्मस्ततो ममाप्येनं | कथयन्तु । ततो मुनिर्धर्ममुक्त्वाऽणुव्रतादि दत्वा गतः, एवमन्येनापि भाषासमितेन भाव्यम् । इति सङ्गतमुनिकथा समाप्ता। - अथैषणासमितिमाह ॥१३६॥ / 2561
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy