________________
पुष्पमाला
लघुवृत्तिः
॥१३१॥
पवयणमायाउ इमा, निद्दिट्ठा जिणवरेहिं समयम्मि । मायं एयासु जओ, जिणभणियं पवयणमसेसं ॥१६८ व्याख्या – इमाः समितिगुप्तयो ( प्रवचनमातरः ) निर्दिष्टा जिनवरैस्तीर्थकरैः समये-सिद्धान्ते, कुतः १ इत्याह-यत एतासु समितिगुतिषु मातं-निष्ठाङ्गतं जिनभणितं प्रवचनं द्वादशाङ्गमशेषं, तथाहि - इर्यासमितौ प्राणातिपातविरमणव्रतमवतरति, तद्वृत्तिकल्पानि च शेषत्र तान्यतोऽत्रैवान्तर्भवन्ति, तथा सावद्यवचनपरिहारतो निरवद्यवचनभाषणात्मिकायां भाषासमितौ निरवद्यवचनपर्यायः सर्वोऽप्यन्तर्भवति, न च तद्बहिर्भूतं किमप्यपरं द्वादशाङ्गमस्तीति । एवमेषणासमित्यादिष्वपि भावनीयम् । इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यत इति गाथार्थः ॥ १६८ ॥ अथैतासु प्रकारान्तरेण प्रवचनान्तर्भावमाह
सुयसागरस्स सारो, चरणं चरणस्स सारमेयाओ । समिईगुत्तीण परं, न किंचि अन्नं जओ चरणं ॥ १६९ ॥
व्याख्या - श्रुतसागरस्य सारः - परमार्थश्वरणं - चारित्रं, तदर्थमेव तत्प्रवृत्तेः । चरणस्यापि सारमेता एव, कुतः १ इत्याहसमितिगुप्तिभ्यः परं न किञ्चिदन्यद्यतश्चरणमस्ति, अनुपयुक्तममनादिसावद्यविरतिरूपं हि चारित्रं, तच्च समितिगुप्तिभिरेव साध्यते, अतः स्थितमेतज्ज्ञानदर्शनाविनाभाविनि चारित्रे प्रवचनमवतरतीति चारित्रं समितिगुप्तिषु इत्येतासु प्रवचनं मातमुच्यत इति गाथार्थः ॥ १६९
काः पुनस्ताः समितिगुप्तयः १ इत्याह
इरिया भासा सण - आयाणे तह परिट्ठवणसमिई । मणवयणकायगुती, एयाओ जहक्कमं भणिमो ॥१७०॥
T
४ भावनाऽधिकारे पश्चमहात रक्षार्थ
रत्नपञ्चक
रक्षक दरिद्र
पुरुषकथा
नकम् ।
॥ १३१ ॥