________________
पुष्पमाला लघुवृत्तिः ॥१३॥
४ भावनाधिकारे समिति
गुप्त्योर्थः ईर्यासमितिस्वरूपं च।
| जितानि, ततो गुरूपायेन स्वदेशं नेतुं युज्यते, इति तत्रैव कचिद्देशे तानि सुगुप्तानि कृत्वा रत्नाकाराणि पञ्चोपलखण्डानि अपराणि
गृहीत्वा कौशाम्बीमार्गे सर्वचौरपल्ल्यासन्नं इत्युच्चैर्वदन् व्रजति, विलोकयन्तु मम पञ्चरत्नानि २। ततश्चौरा आगत्योपलान् वीक्ष्य | निवर्तन्ते, नूनं पहिलः कोऽप्ययमिति मुश्चन्ति, इति कौशाम्बीसमुद्रयोरन्तरा निर्गमनागमनं चकार । ततः सर्वत्र अहिल इति | कृत्वा पूत्कुर्वन्तमपि न गणयन्ति चौराः। ततस्तुर्यवेलायां निजजङ्घायां रबानि गोपित्वा वलितस्तेनैव नगराध्वना, आसन्नमेव जलं पिबति, कन्दमूलफलादि च भुते,न पुनरे याति, अ()दृष्टपूर्वचौरभयात् । एवं कष्टेन रत्नान्यादाय स्वपुरी प्राप्तो विषयसुखभागी जातः। एवं पञ्चमहाव्रतरत्नान्यपि मुनिः सुगुरुसमुद्राल्लब्ध्वा रक्षित्वा ज्ञानादिमागं नयन् रागादिचौरभयाज्ज्ञानादिमार्गस्यासन्नं तिष्ठन् अन्त| प्रान्तमशनाद्यास्वादयन्निवृतिपुरी प्राप्तोऽनन्तसुखभागी स्यात् । इत्यादि शेषोऽप्युपनयो बुधैः कार्यः। इति दरिद्रपुरुषकथा समाप्ता।
अथ व्रतोपकारिणीनां समितिगुप्तीनामुत्सर्गतः परिपालनमुपदिदिक्षुराहताणंच तत्थुवाओ, पंच यसमिईउ तिन्नि गुत्तीओ।जासुसमप्पइ सव्वं, करणिजं संजयजणस्स ॥१६७॥
व्याख्या-तेषां च महाव्रतानां 'तत्र' परिपालनेऽयमुपायः, कः ? इत्याह-पञ्च समितयस्तिस्रो गुप्तयः, कुतः ? इत्याहयासु सिमितिगुप्तिषु पाल्यमानासु समाप्यते-समर्प्यते (?) सर्वमपि करणीय संयतजनस्य, समितिगुप्ती सम्यक् पालयतो महाव्रतानि पालितान्येव भवन्ति, अतो व्रतपालनार्थिना एतास्वेव यत्नो विधेय इति भावः, इति गाथार्थः ॥ १६७ ॥
ननु सर्व संयतकरणीयमेतासु कथं समाप्यते ? इत्याह
RS
.
25%