________________
पुष्पमाला लघुवृत्तिः ॥१२६॥
|| ४ भावनाऽ
धिकारे रात्रिभोजनविरमणो पदेशः।
व्यवहारमात्रेणैव प्रत्यक्षत्वात् । ततः केवल्यादयः प्रत्यक्षज्ञानिनोऽपि निशि-रात्री भोजनमाश्रित्य भक्तं परिहरन्ति, कुतः? इत्याह-यतो वधस्य-जीवघातस्य मूल कारणं तत् , केवल्यादयः कुन्थ्वादिजन्तून भक्तगतान् पश्यन्तोऽपि तेषां वधस्य परिह मशक्यत्वाद्रात्रौ न भुञ्जते, तर्हि तान् जन्तून् द्रष्टुमप्यशक्नुवन्तोऽस्मदादयः कथं भुञ्जते ? इति भावः । किश्च लौकिकसिद्धान्तेप्पपि प्रतिषिद्वमिदं-रात्रिभोजनं, यतो भणितं तेष्विति गाथार्थः ॥ १६३ ॥किं तदित्याह
बंभाइतेयसंभूयं, भाणु जंपति वेयवी । पुढे करेहिं तो तस्स, सुभं कम्मं समायरे ॥ १ ॥ रिसिहि भुतं मजझण्हे, पुचण्हे तियसेहि य । अवरण्हे पियरेहिं, सायं भुंजंति दाणवा ॥२॥ संझाए जक्खरक्खेहि, भुत्तमेवं जहम । सबवेलामइकम्म, राओ भुत्तमभोयणं ॥ ३ ॥
नेवाहुई न य पहाण, न सद्धं देवयञ्चणं । दाणं वा विहियं राओ, भोयणं तु विसेसओ ॥ ४ ॥ एते चत्वारोऽपि श्लोकाः स्त्र्यादीनामुपकाराय प्राकृतत्वेनोक्ताः, स्मृतौ त्वेत एव संस्कृतास्तद्यथा"ब्रह्मादितेजस्सम्भूतं, भानु वेदविदो विदुः। स्पृष्टं करस्ततस्तस्य, शुभं कर्म समाचरेत् ॥ १ ॥" " मध्याह्ने ऋषिभिर्भुक्तं, पूर्वाह त्रिदशैस्तथा । अपसह पितृभिर्मुक्तं, मायं भुञ्जन्ति दानवाः॥२॥" "सन्ध्यायां यक्षरक्षोभि-भुक्तमेवं यथाक्रमं । सर्ववेलामतिक्रम्य, रात्रौ भुक्तमभोजनम् ॥ ३ ॥" "नैवाहुतिने च स्नान, न श्राद्धं देवताऽर्चनं । दानं वा विहितं रात्री, भोजनं तु विशेषतः॥४॥" पाठसिद्धा एव । यदि लौकिकैरपीदं निषिद्धं ततः किम् ? इत्याह
ॐॐRY