SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१२४॥ आस्तां तावदर्थसङ्ग्रहस्तत्प्रतिबन्धोऽप्युपार्जनाद्याग्रहरूपो न कार्य इत्याह जइ चक्कवहिरिद्धिं, लडं पि चयंति केइ सप्पुरिसा । को तुज्झ असंतेसु वि, धणेसु तुच्छेसु पाडवधो? ॥१६१ ॥ व्याख्या -- यदि विपुलां चक्रवर्तिन ऋद्धि-लक्ष्मीं लब्धामपि विद्यमानामपि केचित्सत्पुरुषा भरतादिवन्यजन्ति तर्हि साधो ! कस्तवासत्स्वपि धनेषु तुच्छेष्वसारेषु प्रतिबन्ध-उपार्जनाद्याग्रहः ? इति गाथार्थः ॥ १६१ ।। किं तावद्विभूत्यां शरीरेऽपि केचिदासन्नसिद्धिका ममत्वं न कुर्वन्तीत्याहबहवेरकलहमूलं, नाऊण परिग्गहं पुरिससीहा । सरीरे वि ममत्तं चयंति चंपाउरिपहुव्व ॥ १६२ ॥ व्याख्या - परिग्रहं वधवैरकलहानां प्रसिद्धानां मूलं ज्ञात्वा पुरुषसिंहाचम्पापुरीप्रभुरिव स्वशरीरेऽपि ममत्वं त्यजन्तीति गाथार्थः॥ १६२ तत्कथानकं पुनरिदम् — चम्पापुर्यां किर्त्तिचन्द्रनृपस्तदनुजः समरविजयो युवराजः । अन्यदा वर्षाकाले वातायनगतेन प्रासादतलाये वहन्तीं कल्लोलिनीं निरक्ष्य कौतुकाभिजबन्धुना समं बेडामारुह्य मन्त्रिसामन्तादिबेडाकलितस्तत्र क्रीडितुं लग्नः । तावत्स कोऽपि नदीप्रवाहः समागात् येन द्रोणयोऽन्यान्यदिक्षु क्षिप्ताः, सर्वोऽपि पुरीलोको निष्कासनाय मिलितस्तावन्नृपद्रोणी अदर्शनं गता, नदीवेगेन दूरं नीता । ततो दीर्घतमालाभिघाटव्यां क्वचित्तरुमूले लग्ना नृपद्रोणी, उत्तीर्णः सबन्धुर्नृपः कतिपयपरीकरकलितः, तीरे यावद्विश्राम्यति तावन्नदीखाततटस्थं निधानं ददृशे । तल्लोभादनुजो नृपं हन्तुं दधावे । परिच्छदेन मिलित्वा निवारितो निर्वासि तव । अन्यदा केवलिपार्श्वेऽनुजप्राग्भवं नृपोऽपृच्छत्, केवली प्राह- अत्र जम्बूद्वीपे महाविदेहेषु मङ्गलावतीविजये सुगन्धिपुरे मदना ४ भावनाड धिकारे परिग्रहस्यानर्थमूलत्वम् 1182811
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy